________________
श्रीधन्य
अष्टमः
चरित्रम्
पल्लवः
॥३१०॥
॥सुचिवाद-श्रीदेवकथानकम्॥ भोगपुरे नगरे सुचिवोद-श्रीदेवाभिधानौ द्वौ वणिक्पुत्रौ पृथक्पृथक्पाटके परिवसतः । तयोः पित्रो; परम्परागता महालक्ष्मीः | सुखेन गृहवासं पालयति। तयोर्मध्ये यः सुचिवोदस्तस्य शौचधर्मे रतिः । प्रतिदिनं करकृतसजलताम्रभाजनः परिभ्रमति। यत्र यत्र | याति तत्र तत्र प्रथमं भूपीठमासनं वा चुलुकजलेनाच्छोट्य पश्चात्तत्र तिष्ठति । गृहकार्यार्थं यद् यद् वस्तु आनयति तत् तत् सर्वं जलशौचं कृत्वा गृहमध्ये नयति । अन्यदा तस्य गृहे मातङ्गाः समागताः तस्य गृहीण्या लक्ष्मीवत्या पृष्टम्-'किमर्थमागताः?' | तैरुक्तम्-"पूर्वं सुचिवोदपित्रा अस्माकं व्याजेन दीनारा दत्ता अभूवन् । बहुतरकाले गतेऽस्माकं दीनारसम्पत्तिर्जाता, अतस्तदृणमोचनाय सव्याजदीनारलेखं कारयित्वा सर्वानपि देयदीनारांश्च लात्वा आगताः स्मः, अतः सुचिवोदः कुत्र गतः?"| लक्ष्मीवत्योक्तम्-'अधुना मध्याह्नकालोऽस्ति, अतो गृहोपरितनभूमौ सुखनिद्रया सुप्तोऽस्ति उत्थापयामि' | मातङ्गरुक्तम्-- "निद्राच्छेदे महापापम् । यतः-'निद्राच्छेदी पङ्क्तिभेदी' इत्यादि । अत इमान् दीनारान् भवत्येव गृह्णातु, जागरिते सति सर्वं निवेद्यम्' । इत्युक्त्वा एकस्मिन् भाजने दीनारान् दत्त्वा गता मातङ्गाः । अथ सुप्तोत्थितः सुचिवोद उपरितनभूमितोऽधस्ताद् आगतः । लक्ष्मीवत्या स्वामिने मातङ्गव्यतिकरः प्रोक्तः । सुचिवोदेनोक्तम्-'ते दीनाराः कुत्र?|तयोक्तम्-'अमुकभाजने' । सुचिवोदेन दीनारान् दृष्ट्वा पृष्टम्-'लक्ष्मीवति ! जलयोगः कृतो न वा ?'। तयोक्तम्-'लक्ष्मी-सरस्वत्योः संयोगे दीनारा भवन्ति, तत्र जलयोगकरणे किं प्रयोजनम् ?' इति श्रुत्वा भृकुटि-भङ्गभीषणो भूत्वा क्रोधेनाऽवोचत्-'क्षयं यान्तु इमे दीनाराः, निपतन्तु उत्करे गिरिकन्दरे वा !। गृहे तव शौचं नास्ति। पवित्रं मद्गृहं मलिनीकृतं त्वया' । इत्युक्त्वावामपादेन दीनारा दूरतः प्रक्षिप्ताः । तदा
१. नास्ति शौचंभेवद् गृहे इति प्र.
॥३१०॥
in Education Internaconal
For Personal & Private Use Only
www.jainelibrary.org