________________
श्रीधन्य
चरित्रम्
॥ ३०९ ॥
Jain Education e
राजवर्गीया राज्ञा सह मन्त्रणकारका धूर्ता धृष्टबुद्धयस्ते अतिकूट-कपट - माया- शपथकरणादिभी राज्ये लब्धगुरुप्रसरा मधुलिप्ते | | हस्ते यावन्मानास्तिला लगन्ति तावन्मानैः शपथैः, शत्रुनिग्रहः कर्तव्य इति राजनीतिः' इत्याद्यधर्मवाक्यैश्च राजानं विभ्रमयन्तिधूर्तास्ते दुर्बुद्धिं ददतीत्यर्थः । एवं राज्यमदमत्तचित्ता निरङ्कुशाः सन्तापितसकलजना विषयान्धा धर्मरागं धर्मप्रवृत्तिं च भञ्जन्ति। अर्थलुब्धै रनुजीविभिरसत्यवचनोपमानाद्याडम्बरैश्च संस्तुताः सन्तो देवेभ्योऽप्यात्मानमधिकतरं मन्वते । एवं राज्य गुरुगर्वगरलगलितविवेका न नमन्ति देवं न पूजयन्ति च न सेवन्ते मुनिवरं, न श्रृण्वन्ति शास्त्रं, न मातुः पितुः सज्जन कुल वृद्धादीनां च लज्जां गणयन्ति । तथाऽसुन्दरमपि स्वकीयभणितम् अतीवसुन्दरतया स्थापयन्ति । आत्मकृतममङ्गलमपि मङ्गलतया स्थापयन्ति । सुन्दरमपि परोक्तवचनम् असुन्दरतया स्थापयन्ति । तमेव पुरुषं पार्श्वे स्थापयन्ति, तस्यैवोक्तं श्रृण्वन्ति, स एव पार्श्वस्थितो | वक्तुं शक्नोति, अभिनवं वस्तु खान-पान - वस्त्र - द्रव्यादिकं च तस्यैव ददति तमेव आत्मीय मित्रतया सज्जनतया शुभचिन्तकता च जानन्ति, 'तस्यैव बहुमानं कुर्वन्ति, तेन सह गोष्ठिं कुर्वन्ति, हृद्गतं सर्वं तस्यैव कथयन्ति, यो राज्ञोक्तं 'तहत्ति' इति भणति, यो राजानं दैवतमिव स्तौति यो राज्ञो भुजाबलपराक्रमं दानादावुदारतादिकं च अतिशयोक्त्या वर्णयति । एतैराचारैः कृत्वा राज्ञो वल्लभा भवन्ति; न पुनः सत्यवादिनः प्रतिवचनेन शिक्षादायका, आयतिहितकृतो वा । तस्माद् हे कुमार ! एतादृश्या राज्यलक्ष्म्या | बहुविकारकरणशीलायाः, प्रतिबन्धोऽबुधानां भवति, न बु बुधानां तत्त्वज्ञानां पूर्वापराऽऽय-व्ययद - र्शिनां भवति । अत्रार्थे एकं कथानकं श्रृणु सावधानमनाः । यथा सुचिवोद- श्रीदेवाभिधो वयस्यौ व्यवहारिणौ लक्ष्म्या गुरुकौ कृत्वा उच्चैः पदं प्रापितौ; पुनस्तावुभावपि लक्ष्मीस्थिरीकरणार्थं शुचित्वं पूजादिकं च बहुमानं कुर्वन्तावपि लक्ष्म्या तृणवद् अकिञ्चित्करौ कृतौ । तद्यथा-
१. तस्येवापत् सहायी बन्धुत्वेन गणयन्ति प्र. अधिकधिकः पाठः
For Personal & Private Use Only
अष्टमः पल्लवः
॥ ३०९ ॥
www.jainelibrary.org