SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् अष्टमः पल्लवः श्रुतमामनन्ति न धर्ममीहन्ते, न च आचारचिन्तां चिन्तयन्ति, न च जाति- कुल-धर्म-देश-विरुद्धाचरणलज्जाम्, न च लक्षणापलक्षणं गवेषयन्ति, न शुचि कर्म रक्षन्ति । पुष्पमालादिभिर्बहुयत्नेन मानपूर्वकं सेव्यमाना अपि क्षणमात्रेण विघटयन्ति। चाण्डालवद् विनयादिगुणयुक्तं पुरुषं न स्पृशन्ति । मदिरापानवद् उन्मत्ता इतस्ततो भ्रमन्ति अनेकगुणकलितानामपि लक्ष्म्या | संगतानां पुरुषाणाम् एवंविधा कथमपि प्रकृतेर्विकृतिर्जायते। लक्ष्मीवन्तो नरा ज्वरगृहीता इव यत्तत्प्रलपन्ति, बाढमाकुलचित्ता | भवन्ति । तथा धनवन्तः सलिलेन पङ्कमिव दाक्षिण्यं प्रक्षालयन्ति-कस्यापि मुखं न रक्षन्तीत्यर्थः । धूमसञ्चयेन चित्रवल्लीमिव | हृदयं मलिनीकुर्वन्ति । यदुक्तम् -- 'भक्तद्वेषो 'जडे प्रीतिररुचिर्गुरुल 'धने। मुखे च कटुता नित्यं धनिनां ज्वरीणामिव ||१|| भोःकुमार! लक्ष्मीस्तावद् राज्य-शोकनिबन्धनम्। राज्यं पुनः पातालमिव दुष्पूरं - केनापि पूरयितुंनाऽलम्, खलसङ्गतिरिव विरसावसानं, पणाङ्गनाप्रीतिवद् अर्थवल्लभं, तरुणी-तरुणप्रलोकनमिव चञ्चलस्वभावं क्षणद्युतिविलसितमिवा ऽचिरालोकम्, अबुधवचनमिव दारुणपरिणाम, सन्ध्याभ्ररागविलास इव अज्ञातोत्पत्तिनाशं, पयोधितरङ्गपतिततैलमिवाऽस्थिररचनाविस्तारं, | करण्डस्थापितसर्प इवाऽप्रमत्ततया पालनीयं, प्रतिक्षणमार्त-रोद्रविकल्पमूलम् । लक्ष्मीर्विकारकारणं, राज्यलक्ष्मीः पुनर्विशेषतो विकलतानिदानम् । यतो राज्यलक्ष्मीपरिकरिताः पुरुषा विशाललोचना अपि अन्धवत् सम्मुखमागतं न प्रेक्षन्ते-परमुखाद् जानन्ति। | सश्रवणा अपि समासन्नजल्पितं बधिरवद् न श्रृण्वन्ति। सवदनाः स्पष्टरसनाश्चापि मूकवद् न ददति प्रतिवचनम् । अपि चर ये १. भक्ता सेवकाः तेषां द्वेषः (पक्षे) भक्तमन्नम् तद्वेषः । २. जडमूर्खप्रीतिः पक्षेऽलयो, सवर्णन्वान् । जलेरुचिः । ३. गुरुणांपित्रादिनामुल्लंघने। (पक्षे) गुरु यल्लंधनं उपवासस्तस्मिन्। ४. कटुभाषित्वम् (पक्षे) कटुत्वम्। ५. परवचन प्र. अधिकः पाठः। ॥३०८॥ Jain Education Interational For Personal & Private Use Only Maw.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy