SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् अष्टमः पल्लवः •||३०७॥ MIतानि सेवमानः पुनरनन्तसंसार भ्रमणशीलं पापं च कर्म बध्ध्वा भवपूरणं च कृत्वा नरकाऽवटे पतति । यत एकैकेन्द्रियवशाद् प्राणीमहादुःखमाप्नोति तदा पञ्चेन्द्रियवशगोजीवो दुःखमाप्नुयात्तत्र किमाश्चर्यम् ?|तस्मात् सर्वदुष्टार्थप्रेरिका लक्ष्मीःशरदण्डवत् प्राणिप्राणहारिका समस्तदोषाणां जननी''। इत्येव धर्मोपदेशपद्धतौ जगद्गुरुणा प्रोच्यमानायां केरलो राजपुत्रः समुत्थाय सविनयं करसम्पुटेन प्रणामं कृत्वा त्रिजगद्गुरुं जिनेन्द्र प्रति प्रश्नं करोति स्म-"स्वामिन् ! भवता तु लक्ष्मीः सर्वदुःखनिबन्धनं हेय तयोपदिष्ठाः । परं हस्त्यश्वरथादि विभूत्या रमणीय पुरतः प्रसरपनेकपदाति वर्ग संकुला सर्वजनानाम् दर्शनीया, चतुरभोगिनाम् अभिगमनी, समस्तैहिकसुखनिधिकल्पा एतादृशी लक्ष्मीः कथं त्यक्तुं शक्यते ?" | भगवता भणितम्- "कुमार ! अनादिसंवाससम्बन्धयोगत इन्द्रियवशगानां संसारिजीवानां परम् इष्टमिन्द्रियसुखम्, तच लक्ष्म्यधीनं, तस्मात् सर्वेषां संसारिणां लक्ष्मीरतीव प्रिया । परं लक्ष्मीः । खलवद् जीवाय अतिदुःखदायिनी भवति । तथा खलः प्रथमं मिष्टवचनादिना परस्याऽऽवर्जनं कृत्वा, सर्वस्वं ज्ञात्वा तस्य दुर्बुद्धिं च दत्त्वा कुकार्ये प्रवर्तयति ततः खलो राजाग्रे कुकार्यप्रवर्तनत्वरुपस्य पैशून्यं कृत्वा कारागारे पातयति । पुना राजादीनामग्रे किमपि उच्चनीचवचनरचनां कृत्वा तस्य कञ्चिद् दण्डं दत्त्वा तस्याग्रे तु महाभयं दर्शयित्वा सर्वस्वं गृह्णाति। रङ्कवत् स्वाधीनंच कृत्वा रक्षति। स मनुष्यस्तुजानाति-'ममैष एव हितकारकः, अन्यः कोऽपिन' । पश्चात् खलस्तमावर्त्य दरिद्रं च कृत्वा गृहाद् निष्काशयति, सम्मुखमपि न पश्यति। ततः स्थानभ्रष्टो मनुष्योऽनेकानि दुःखा न्यनुभवति । एवं लक्ष्मीरपि दुःखदायिनी । तस्याश्चरित्राणि श्रुणु-एषा लक्ष्मीर्मरणदानदक्षा दया-दान-संवरादिधर्मविपक्षा । सा हि प्रथमं तावद् महाक्लेशाल्लभ्यते, लब्धाऽपि दुःखेन पाल्यते । धनसंरक्षणं संरक्षणानुबन्धिरौद्रध्यानस्य मूलम् । लक्ष्म्या लालिता नरा एकां लक्ष्मीमुपार्जयितुं प्रवर्तमानाः कुलमर्यादां न गणयन्ति, न शीलं शीलयन्ति, शीलवतो न बहु मन्यन्ते, न गणयन्ति वृद्धत्वं वा, न ॥३०७॥ in Education Intern For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy