________________
श्रीधन्यचरित्रम्
॥ ३०६ ॥
Jain Education In
सामग्रीसंयोगः । तमपि लब्ध्या अनादिशत्रुलोभ - कामविवशो जीवो हा! मुधा गमयति कालम् । तत्राऽर्थ सर्वाऽनर्थमूलं ज्ञातव्यम् ।
यतः
अर्थानामर्जने दुःखमर्जितानां च रक्षणे | आये दुःखं व्यये दुःखं धिगर्थ दुःखसाधनम् ॥१॥ अर्थो बहुभिः क्लेशैर्बहुभिश्च पापैः पूर्वपुण्ययोगोदयाल्लभ्यते तदा तद्रक्षणेऽपि महदुःखम् ; यतो धन स्याऽनेकानि भयानि । यदुक्तम् -
“दायादाः स्पृहयन्ति तस्करगणा मुषणन्ति भूमिभूजो, दुरेण च्छलमाकलय्य हुतभुग' भस्मीकरोति क्षणात् ।
अम्भः प्लावयते क्षितौ विनिहितं यक्षा हरन्ति ध्रुवं, 'दुवृत्तास्तनया नयन्ति 'निधनं घिग् घिग् धनं तद् बहु" ॥
कदाचित् पापोदयाद नष्टे धने लोकव्यवहारा -ऽऽजीविका द्रव्यसुखविरहभयाद् महाविषादं शोकं चाप्नोति नरः । अनेकविकल्पाकुल आर्त्तं रौद्रं च ध्यायन् दुष्टाष्टकर्माणि चिनोति । श्रीनाशात् कातरत्वेनाऽध्यवसायमूढो मरणमपि प्रान्प्रोति, मृत्वा च नरक-निगोदादिषु अपरिमितं दुःखमाप्नोति । तथा कदाचित् सुकृतोदयाद् धनं प्राप्तं, जन्म आरभ्य मरणं यावच्च स्थिरीभूतं; तदा प्रकृत्या दुष्टाशया लक्ष्मीः काम भोगाय प्रेरयति । कामासक्तश्च जीवः कामभोगार्थं षट्कायवधबहुलानि सप्त व्यसनानि सेवते
१. गौत्रीयाः २. अग्निः, ३. दूराचाराः, ४. विनाश
For Personal & Private Use Only
अष्टमः
पल्लवः
॥ ३०६ ॥
www.jainelibrary.org