________________
श्रीधन्यचरित्रम्
प्रथमः
पल्लवः
॥२३॥
धन्यकुमारस्य तदग्रजानां च चरित्रम इह भरतक्षेत्रे दक्षिणदिग्विभागे स्वस्ति-ऋद्धि-समृद्धिगुरुताया एक स्थानं नररत्नप्रतिष्ठानमेतादृशं श्रीप्रतिष्ठानपुरपत्तनमासीत् । यत्र तत्पुरपरिसरे गोदावरी नाम्ना नदी परिवहति । तत्र कविरुत्प्रेक्षां करोति-यतोऽहमेवं मन्ये गोदावरीनदीजले अनेकस्वर्णरत्नाऽलङ्कारयुता नार्यः स्नानार्थमागच्छन्ति । जलक्रीड़ां कुर्वतीनां तासां कण्ठाद्यङ्गात् परिच्युतैर्नदीप्रवाहवाहितैः रत्नैः कृत्वा समुद्रस्य 'रत्नाकर' इति प्रसिद्धिर्जाताऽस्ति । तत्र-तस्मिन्नगरे भीम-कान्तगुणैर्युक्तो जितशत्रुनामा राजा राज्यं करोति स्म । यस्याज्ञाभीत्या प्रीत्या च शत्रुभिर्मित्रैश्च प्रियकृतो निर्वहति । यस्य भूपतेः खङ्गो अभिनवः कोऽपि धाराधरो-मेघः प्रकटितः यद्धारायां तुङ्गा अपि क्षोणिभृतो निमग्नाः । एतावता क्षोणिभृत्सद्दशाः-पर्वतसमाना अपि तस्य प्रतापसमुद्रे निमग्ना-ब्रूडिताः । अथ तं राजानं जगति चतुर्भी रूपैर्ददृशुः-मेनिरे । तत्र ये गुरवः कुलवृद्धास्ते विनयादिगुणैर्बालं मेनिरे। तथा च ये शत्रवस्ते शौर्यादिगुणैः कालं-यमं मेनिरे। पौरजना न्यायनिष्ठतया रामं मेनिरे। तथा पौरयुवतयश्च अद्भुततया कन्दर्प मेनिरे । तत्र यशोधवलितेषु पौरेषु दानादिगुणैः श्रेष्ठ धनसारश्रेष्ठीति यथार्थनामा श्रेष्ठी समभूत् । तस्य श्रेष्ठिनो दानादिगुणैर्वणिकपुत्रगणैरिव यशोभिश्च स्पर्धाबन्धादिव दिशो दिशः व्याप्ताः । यस्य चित्तस्य लज्जालुत्वदयालुत्वप्रमुखैर्गुणैश्चारिमा-मनोहरता केनापि वक्तुं न शक्यते । यस्य हृदये त्रिजगन्नाथो जिनोऽपि नित्यस्थित्याऽधिस्थितः, एतावता नित्यं श्रीजिनध्यानतत्परोऽस्ति । अथ तस्य व्यवहारिणो दान-शीलादिगुणशालिनी शीलवती प्रियाऽस्ति । स्वकुशेलज्जामर्यादया । गृहभारं निर्वहति । अस्थिमज्जावत् श्रीजिनराजधर्मरागधुरां परिवहति । यस्या रूपसौन्दर्यशोभया
॥२३॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org