________________
श्रीधन्य
चरित्रम्
॥२२॥
Jain Education International
नवतप्तशलाकां कृत्वा नवस्वङ्गेषु एकयैव हेलया डम्भान् दत्त तदाऽयं स्वभावस्थो भविष्यति, अन्यथा विकृतिर्वृद्धि यास्यति, | असाध्यो भविष्यति, अतस्वत्वरितं कुरुत' । पुत्रादिभिस्तथैव कृतम् । स्वजनैर्हस्ताभ्यां गाढं गृहीतः, अन्येन नवस्वङ्गेषु नव डम्भका दत्ताः । तदा केनाप्युक्तम्- ' एवं कृते यदि स्वस्थो न स्याद् तदा किं करणीयम् ? । तदैकेनोक्तम्- निगडे प्रक्षिप्य एकस्मिन्नन्धतमसेऽपवर्गे क्षिप्त्वा एकविशतिदिनानि क्षुधितो रक्षणीय इति । विप्रेण ज्ञातम् -'कार्य जातम् । यद्यहमाग्रहं न मोक्ष्ये तदा निगडे पतिष्यामि, देववचनं नाऽन्यथा भवति' । इति ध्यात्वा वाचालत्वं त्यक्त्वा कपटेन मूर्च्छा प्राप्तः । घटिकाचतुष्कं मौनं धृत्वा पश्चात् कपटेन जागरितो भूत्वा पुत्रान् पृच्छति - 'पुत्राः ! किमेते लोका मिलिताः ?, ममाङ्गुल्यादेर्भूषणानि कुतः ? इति पप्रच्छ । पुत्रैरुक्तम्- 'तात ! युष्माकं तु कोऽपि भूतावेशो वातावेशो वा जातः । भवता तु सहस्त्रद्वयरूप्यका अनर्थ व्ययिताः' । इति श्रुत्वा कपटेन हाहारवं कर्तु लग्नः । 'हाहा ! किं जातम् ? एतावन्तो रूप्यकाः कुतोः मिलिष्यन्ति' ? इति विषाद कर्तु लग्नः । तदा सर्वैरप्युक्तम्- 'अधुना स्वभावस्था जातः । पुनस्तेन पूर्ववदवस्था पालिता । तस्माद्दानमतिपालनं न सुलभम् । यदि पुण्यानुबन्धिपुण्यं भवति तदुदये पात्रदानमतिः, नान्यथा । अतः सुपात्रदाने आदरं कुर्वन्तु भव्याः ।
अथ पात्रदानविधिर्यथा -
यः पुरुषः सोत्साहमुदारतया समस्तराजलक्ष्म्या निदानं कारणं सुपात्रदानं ददाति स धन्यात्मा धन्यकुमार इव | जगत्प्रशंसनीयसम्पदां पदं प्राप्नोति । तथा च ये पुरुषा निःसत्त्वा दानं दत्त्वाऽपि पश्चात् शोचन्ते पश्चातापं कुर्वन्ति ते पुरुषाः परभवे दुःखिनो भवन्ति-लक्ष्मीवियुक्ता भवन्ति । यथा यथा धन्यकुमाराऽग्रजास्त्रयो वृद्धभ्रातरः । अथ च तेषां त्रयाणां धन्यकुमारस्य च चरित्रं प्रारभ्यते । तथाहि
For Personal & Private Use Only
प्रथमः
पल्लवः
॥२२॥
www.jainelibrary.org