________________
श्रीधन्य
चरित्रम्
प्रथमः पल्लवः
॥२१॥
********
मिलितान्याश्चर्यमाप्नुवन्ति। 'किं जातं विश्वभूतेर्यदयं दाननाम्नाऽपि धूजति सोऽयमगणितद्रव्यं ददाति । एवं स्तोके काले नगरे वार्ता विसृता । जनाः श्रुत्वा प्रथमं नैव मन्यन्ते, पश्चाद् दृष्ट्वाऽऽश्चर्यमाप्नुवन्ति। केऽप्यतिपरिचिताः पृच्छन्ति-'भो विश्वभूते ! तव किं जातं यत्कदापि नाऽनुभूतं दानं दातुं कथं मनोरथो जातः' ?। द्विज-प्राह-'भ्रातः ! एतावन्ति दिनानि अविद्यया विपर्यासेन च न ज्ञातम्, अधुना तु शास्त्रपरिचयाद् हार्द लब्धम् । दानभोगादिं विना लक्ष्मीनरकप्रदायिनी, उभयलोकाद् भ्रंशयति, अतो दानं ददामि' । एषा वार्ता क्षणेन द्विजपुत्रेभ्यः केनाप्युक्ता-'भोः ! युष्माकं पिता बहु दानं ददाति' । तदा तस्य पुत्रा वदन्ति-'भ्रातः ! किं हास्यं करोषि ?, अस्माकं केनापि दुष्टकर्मणा सम्बन्धो जातः । किं क्रियते?, संपूर्णेऽपि त्यागभोगसंयोगे प्राप्ते दारिद्यभावेन वर्तामहे, त्वं पुनः किमुदरं ज्वालयसि' ? । तेनोक्तम्-'नहि नहि, अहं दृष्ट्वाऽऽगतः । एवमुक्ते द्वितीयः कोऽप्यागतस्तेनापि तथैवोक्तम्, एवं तृतीयेनापि । सदा सशङ्का पुत्रादयः सम्मुखं प्राप्ताः । यथा श्रुतं तथैव दृष्ट्वा आश्चर्य प्राप्तास्तातं प्रति वक्तुं लग्नाः- भोस्तात ! इमं किमनर्थव्ययं करोषि' ? । विप्रेणोक्तम्-'भोः पुत्राः । अधुना मया ज्ञातं 'लक्ष्मीनरकप्रदायिनी' । तस्माद् यथेच्छं भोगान् भुङ्गध्वम्, दानंदध्वम्। एतावत्कालो मयाऽनर्थ हारितः युष्माकमपि अन्तरायकारको जातः । तस्माद् द्रव्यं गृहणीत, यथेच्छया सुखं विलसत' । एवं वदन् (न्तं) मुष्ट्या दानं ददानं दृष्ट्वा समस्तस्वजनैः पौरलोकैश्च गदितम्-'नूनमस्य भूतावेशो जातस्तेनाऽसम्बद्धं प्रलपति, द्रव्यं च विकिरति । इमं गृहे नीत्वा किमपि मन्त्रौषध्यादिकं कुरुत यथा स्वभावस्यो भवेत् । ततः सर्वैरेकीभूय गृहं नीतोऽपि भार्यां प्रति तथैव ब्रूते-'हे मुग्धे ! इमं दरिद्रवेषं त्यज, सम्यग्वस्त्रभूषणादिकं परिधेहि' । सा चकिता; किमसम्भावनीयं वदति ?। केनापि विदुषोक्तम्-'अस्य प्रेतावेशो वा किमपि वायुविकृत्या कमलस्फुरितम्' अतोऽस्य प्रच्छन्नतया
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org