________________
श्रीधन्यचरित्रम्
प्रथमः
पल्लवः
॥२०॥
.
दादीनामनुकूलत्वेन च दानभोगादि कर्तुं शक्नोषि, नान्यथा। यदि त्वं समूच्छको भूत्वा दानभोगादि करिष्यसि तदाऽहं तव नवस्वङ्गेषु डम्भान्दापयिष्यामि. तत्सत्यमेव ज्ञेयम्' । विप्रेणोक्तम्-'मयोपार्जितं द्रव्यमहमेव दानभोगादिषु व्ययं करोमि तदा मम को वारयिता?, प्रत्युत यशःशोभा वृद्धिं यास्यति' । लक्ष्मीराह-'ईदृशीमिच्छां कदापि मा कुरु । यतः कर्मपरिणामराज्ञ आज्ञां त्रिजगति न कोऽप्युल्लङ्घते।ये त्रिजगदीश्वराजगद्ध्वंसनरक्षणसमर्था अनन्तबलयुक्तास्तीर्थङ्करास्तेऽपि कर्मपरिणामानुकूलां प्रवृत्तिं कुर्वन्ति। तेऽपि भोगोदयं यावद् भुक्त्वा कर्मपरिणामनुकूलं दानं च दत्त्वा व्रतं गृह्णन्ति, तदा त्वं कियन्मात्रो यत् कर्मपरिणामराज्ञः प्रतिकूलो भूत्वा दानभोगान् करिष्यसि ? । चेत् करिष्यसि, ते नवस्वङ्गेषु डम्भान् दापयिष्यामि' । विप्र आह-'याहि याहि, त्वया यत्कर्तव्यं भवति तत्सुखेन क्रियताम् । लक्ष्मीराह-'एवं तर्हि शीघ्रो भव, यद् रोचते तत् कुरु' । इत्युक्त्वा गता लक्ष्मीः। ___ अथ पर्यङ्के सुप्तश्चिन्तयति-'प्रभाते कि यत्परिमितं धनं लात्वा उदारवृत्त्या यादृशौ अस्य श्रेष्ठिनस्त्यागभोगी तस्मादप्यधिकतरं प्रवर्तयिष्यामि । धनं तु ममाऽमुष्मादप्यधिकतरं वर्तते । यथा देशान्तरं यावत् कीर्तिः प्रवर्तेत तथा करिष्यामि' । इत्येवं चिन्तयन् रात्रिमतिवाह्य प्रभाते श्रेष्ठिपार्थात् पञ्चसहस्त्ररूप्यकान् लात्वा' एकस्य कर्मकरस्य हस्ते दत्त्वा चतुष्पथे गत्वा, बहुद्रव्यव्येन भव्यानि नवीनानि वस्त्राणि गृहीत्वा, परिधाय, एवमङ्गोपाङ्गेषु भूषणानि द्रव्यव्ययेन संगृह्य यथायोगमङ्गानि भूषयित्वा,मार्गे गच्छन् दीन-हीन-याचकेभ्यश्चमुष्टिं भृत्वाऽर्पयति। याचका अप्याश्चर्यं प्राप्ताः, अद्यतु महदाश्चर्य
यद् विश्वभूतीर्दानं ददाति। लोकास्तु सहस्त्रसङ्ख्यया मिलित्वा वदन्ति-'भो अमुकसखे ! धाव धाव, दर्शयामि कौतुकम्। +सोऽपि धावन्नागतः-'किं किम्' ? 'पश्य, अयं विश्वभूतिर्दानं ददाति' । एवं चतुष्पथे चतुष्पथे लोकानां वृन्दानि
॥२०॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org