________________
श्रीधन्यचरित्रम्
॥ १९ ॥
तिष्ठन्ति न किमपि जल्पन्ति केषाञ्चित् पुनः स्तोकं दत्त्वा पूर्णं वहिकायां लिखति। एवं बहुतरे काले गते सर्वेऽपि राजकीयास्तस्य शत्रवो जाताः ।
एकदा पुना राज्ञोऽधिकारिणामश्वचारिकां दृष्ट्वा भाण्डागारिकश्चिन्तयति अहमपि राज्याधिकारी, अतोऽहमप्यश्चचारिकां कृत्वा महत्या विभूत्या चतुष्पथादौ व्रजामि । इति ध्यात्वाऽश्वचारिकायां सुखासनाऽधिरूढो महत्या विभूत्या ब्रजति । अथ | तस्याऽश्वचारिकां दृष्ट्वा परं खेदिताः सर्वे राजकीयाः क्रुद्धाः । अवसरं लब्ध्वा राज्ञोऽग्रे कथितम् - युष्मदीयो द्रव्यं स्वेच्छया व्ययति । तत आहूतः कथितम्- 'कथममुकस्य द्रव्यं न दत्तम् ? तदा तस्य दूषणानि समुद्घाट्य वक्तुं लग्नः - 'अयं तु बहुतरमत्ति, किमस्य | देयम् ? इत्यादि श्रुत्वाऽहो ! अयं दिष्टो दापयितुं न ददाति, प्रत्युत पैशुन्यं करोतिः, तदाऽन्यस्य तु सुतरां दुःखदायको भविष्यति । एवं राज्ञोक्ते सभ्यैरपि खेदितैस्तथैवोक्तम् । तदा राज्ञा क्रुद्धेन सर्वस्वं गृहीत्वा देशान्निष्काशितः ।
एवं भो द्विज ! त्वयापि निर्दयनिर्विवेकदूषणसहितेन कष्टतरतपस्यादिकृते, कर्मपरिणामराज्ञा पापानुबन्धि पुण्यवतस्तव मद्रूपस्य द्रव्यस्य रक्षकरूपो भाण्डागारिकः कृतः । अतस्त्वं यदि धनरक्षको भूत्वा दानभोगादिना द्रव्यव्ययं करोषि तदाऽहं | कर्मपरिणामराजा च कुप्यावः । अतस्त्वं द्रव्यरक्षको मम किंकरोऽसि । श्रेष्ठिनस्तुलना त्वया कथं भवति ? इति लक्ष्म्योक्तं श्रुत्वा | द्विजः प्राह- 'हुं, ज्ञातं मया तव स्थिरीकरणहार्दम्, यदहं पापानुबन्धिपुण्यस्यापि स्वाम्यस्मि तत्पुण्यं यावन्न व्येति तावत्तु त्वं मे गृहेऽसि तदा का चिन्ता ? अद्यैव प्रभाते दानभोगाद्यवच्छिन्नं प्रवर्तयित्वाऽहमपि त्वां चेटीरूपां करिष्यामि' । लक्ष्म्योक्तम्- 'पश्य तव मुखम् । भारवाहक - स्योत्पाटनार्थ दत्ता धनग्रन्थी किं भारवाहकस्यापि जाता ? भो मूर्खराट् ! पूर्वजन्मकृतशुद्धधर्मेणाऽस्म
Jain Education International
For Personal & Private Use Only
प्रथमः
पल्लवः
॥१९॥
www.jainelibrary.org