________________
श्रीधन्यचरित्रम् |
प्रथमः पल्लवः
॥१८॥
करोति, अधिकाधिकधर्मेहां न मुञ्चति, भोगास्तु पूर्णकृतधर्मस्यानुषङ्गिका भुक्ता एव, यथा सौगन्धिकव्यवसाये वस्त्रादीनां सुवासनावत्त्वमानुषङ्गिकम्। अतोऽहं पूर्वजन्मनि निर्दूषणधर्मबलेनाऽऽत्मसात् कृता, पुनरिहभवेऽपि दान-पुण्य-विनय-लज्जादाक्षिण्या-ऽऽर्जवादिगुणैर्नियन्त्रिताऽस्य सेवाभक्तिं करोमि । यदुक्तं च शास्त्रे
भोज्यं भोजनशक्तिव, रतिशक्तिर्वराः स्त्रियः। विभवो दानशक्तिश्व सदाज्ञातपसः फलम् ॥||
त्वया च पूर्वजन्मनि केवलं निर्दय-निर्विवेकतयाऽज्ञानकष्टं कृत्वा पापानुबन्धिपुण्यमुपार्जितं, यस्योदयेन पापमतिरेव प्रसरति । यतः-सदोषकृतकष्टफलैः सदोषवैभवं प्राप्नोति । इह जन्मनि पुनर्लोभाभिभूतोऽसत्यादिभाषण-पाप-स्थानसेवनेन वैभवं प्राप्याऽदत्त्वाऽभुक्त्वा नरकादिषु गच्छति। कदापि सत्सङ्गादिकरणे दानादिमतिर्भवति तथापि कोऽप्यन्तराय आपतति येनोत्पन्नापि | मतिर्विनश्यति, परं कर्तुं न शक्नोति । यथा - __कोऽपि कृपणनिर्दयः पुरुषोधनार्थी महत्वार्थी च नृपसेवां बहुकष्टसहनपूर्वकं करोति एकाग्रतया। बहुभिर्दिवसै राज्ञा ज्ञातोऽयं | ममाऽहर्निशं सेवां करोति, मदर्थं कष्टं च सहते। अतोऽस्य सेवाफलं कमप्यधिकारं दद्मि। पुना राज्ञा ध्यातम्-कोऽधिकारोऽस्य दीयते? तदा राज्ञा चातुर्यबुद्ध्या परीक्षितः । यतोऽयं परीक्षितः । यतोऽयं सेवायां दृढ़ः, परंतु कृपणो निर्दयश्चास्ति, अतोऽस्य भाण्डागारित्वं दीयते । यतोऽयं कृपणत्वाइव्यं न व्ययति, निर्दयत्वाद् दापितेऽपि शीघ्रं न ददाति । अस्यवैऽधिकारो देयो नाऽन्यस्याऽर्हतीति ध्यात्वा भाण्डागारिकः कृतः । यस्मै राजा धनं दापयति निर्दयत्वाद्धनं न ददाति, कष्टं च ददाति । राज्ञोऽग्रे तस्य दूषणान्युक्त्वा राज्ञा कोपं कारयति । ये पुना राज्ञः समीपे यान्ति तदा राज्ञो दृष्टिं कोपकलितां दृष्ट्वा सर्वेऽपि मौनमादाय *
॥१८॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org