SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् र अष्टमः पल्लवः ॥३०४॥ भक्तिसारा दौरात्म्यनिर्मुक्ता । धनसारादयः पौरा विगतस्पृहं गुरुं नमस्यितुं जग्मुः। ततः पञ्चभिगमनादिवन्दनविधिपूर्वकं गुरुमभिवन्द्य उचितस्थाने धर्मरवणपिपासया सम्मुखं स्थिताः । तदा गुरुरपि तान् श्रवणार्थिनः संवीक्ष्य | चतुर्गतिक्लेशसमूहनिवारकं चतुर्विधं धर्म गृणाति स्म। तथाहि-"सर्व-समीहितसम्पदाम् उद्देदा दानादयो धर्मभेदाः प्रत्येकं विधिना श्राद्धेन आराधिताः कल्पद्रुमवत् फलन्ति। तत्र दानधर्मश्चतुर्णामपि धर्माणां मध्ये प्रथमः । यतो जिनधर्मस्य मुलं दयैवोक्ता, सा तु अभयदानरुपा । यतः "अभयं सुपत्तदाणं अणुकंपा उचिय-कित्तिदाणं च। दोहिं पि मुक्खो भणिओ, तिन्नि वि भोगाइया दिन्ति ||१|| इत्यादि । दानगुणेन इह-परलोके जगद्वल्लभो भवति । दानी यद् यत् समीहते तत् तत् सर्वं मुखाग्रे आगच्छति। दृश्यते च दानिन इच्छामात्रविलम्बः सम्पदायाः । दात्रा नगरं शोभते। तत्र दाता सुपात्रदानेन विशेषतः पुण्यं यशश्च बध्नाति । यतः : पृथिव्याभरणं पुरुषः पुरुषाभरणं प्रधानतरा लक्ष्मीः । लक्ष्म्याभरणं दानं दानाभरणं सुपात्रं च ॥१॥ दानं क्वापि निष्फलं न भवति । यथा - "पात्रे पुण्यनिबन्धनं तदितरे प्रोद्यद्दयाख्यापकं, मित्रे प्रीतिविवर्धकं रिपुजनेवैराऽपहारक्षमम्। भृत्ये भक्तिभरावहं नरपतौ सन्मानपूजाप्रदं, भट्टादौ च यशस्करं वितरणं न क्वाप्यहो! निष्फलम' १. दौदात्म्य प्रमांदेचमुक्त्वा प्र. २. गुरुपदशंने इत्यधिकः पाठः प्र. ३. श्रीजिन इत्यधिकः पाठः ४. कथयति, ५. अभय सुपात्र दानं | अनुकम्पा उचित कीर्तिदानं च । द्वाभ्यामप्रि मोक्षो भणितस्त्रिण्यपि भोगादिकान् ददति। ॥३०४॥ JainEducation international For Personal & Private Use Only Twww.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy