________________
| अनुपकारिणी-कस्यापि कार्ये नायातीत्यर्थः । तस्याद् हे पूज्या ! माम् अनुगृह्णीत, यूयमत्र तिष्ठत, इमां रमां चिरं स्वेच्छया त्यागभोगैः सफलीकुरुत, इमां मम शिशोः समीहां पूरयत" । इति विनय-भक्ति-गुणगर्भितां धन्यस्य गिरं श्रुत्वा मानदोषदुष्टा असूयाज्वलितान्तःकरणास्तेऽप्यूचु-"भ्रातः ! वयं लघोर्मध्ये न स्थास्यामः, यतो लघोर्मध्ये तिष्ठतामस्माकं वृद्धत्वं याति यतः सहस्त्रांशुः" षोडशा चिगुहे वसन् किं न नीचः स्यात्?।अतो पितुर्धनं विीज्याऽस्माकं देहि यद्वयं पृथग्गृह लात्वाऽत्र निवसामः"। इति तदुक्तं श्रुत्वा विवेकी स्वगुणसङ्ख्याममुञ्चन् सरलाशयो धन्यः प्राह-एवं भवतां चित्तप्रसत्तिस्तदाऽतिवरम् मया, तु भवदाज्ञा प्रमाणीकतं व्या' । इति विज्ञप्य भाण्डागारिकं समाहूय आज्ञा कृता यद्-अमीषां त्रयाणामपि पूज्यपादानां प्रत्येकं चतुर्दश चतुर्दश स्वर्णकोटीदेहि' । इत्याज्ञां श्रुत्वा 'अतिवरं, प्रमाणं मे स्वामिवचः' इत्युक्त्वा प्रणामं च कृत्वा तान् त्रीन् प्राह-'आगच्छत यूयम्, स्वाम्याङज्ञया ददामि सवर्णकोटीः' ततस्ते धनग्रहणाय भाण्डागारिकमनुगताः । तदा ये सभ्याः परिजना अन्यलोकाश्च धन्यस्य गुणैस्तेषां दोषैश्च चित्ते चमत्कृतास्ते बाहुमुत्तम्भ्य वादीन्द्रा इव परस्परं वावदन्ति-"मात्सर्यं निःस्वता चेदं द्वयमेषां कोटिप्राप्तम्, तथा धन्यस्य बन्धुस्नेहो वदान्यत्वं चेदं द्वयं कोटिप्राप्तम । इह जगति जनाः स्वकीयं परकीयं वा धनं ग्रहीतुं वाञ्छन्ति, ईदृशास्तु बहुलाः, परं ये स्वभुजोपार्जितं प्रभूतवित्तम् अरिभ्योऽपि प्रयच्छन्ति ते जगत्यतिदुर्लभतराः" । अथ धन्याज्ञया भाण्डागारिकेण त्रयाणां प्रत्येकं चतुर्दश चतुर्दश कोटीस्वर्णं दत्तम्। तल्लात्वा गच्छन्तो 'मुद्गरकरैस्तद्धनाऽधिष्ठायकसुरैर्वीरभटैस्तस्करा इव द्राग द्वारे रुद्धाः । तेषां चाग्रतः प्रत्यक्षतया स्थित्वा प्रोक्तुं लग्नाः-'रेरे निर्भाग्यशेखरा! दुर्जनाः ! खलाः ! पुण्याढ्यधन्यधनस्य न यूयं
१. सूर्यः, २. शुक्र गृहे, ३. इति विधाकितं इत्यधिकः पाठ प्र. ४ इति निश्चितम् इत्यधिकः पाठ प्र. ५. विविधमुद्गहादिहेनिहस्तैः प्र.
॥३०१॥
sain Education in
For Personal & Private Use Only
Www.jainelibrary.org