SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ लात्वाऽत्रागताः , परन्तु अत्र धान्यं समर्धं तेन लाभो न जातः, प्रत्युत हानिर्देशयते' । धन्येनोक्तम्-'आदित एव मालवदेशे वसथ अन्यदेशादागता वा ? | तैरुक्तम्- 'न हि, न हि, अन्य देशवास्तव्याः, उदरवृत्त्यर्थं तत्र गताः ।धन्येनोक्तम्-'पूर्वं वास्तव्यस्थानं क्व?' तैरुक्तम्-स्वामिन् किं कथ्यते कर्मणां गतिः? यत्रोदरवृत्तिर्जाता स एव आत्मीयो देशः, धन्येनोक्तम् युष्माकं पितरौ संस्तः?। तैरुक्तम्-संस्तः धन्येनोक्तम्-'तौ कुत्र स्तः ? । तैरुक्तम्-यत्र ग्रामे निवसामस्तत्र पितरौ स्त्रियश्च सन्ति । धन्येन चित्तिन भूपश्यतु दारिहयो पद्रवपीडिताः प्रत्यक्ष स्थितमाम् नोपलक्ष्यन्ति। प्रत्युत भय माहनुवन्ति। तदा धन्येनोत्थाय ज्येष्ठभ्रातृन् अग्रतः कृत्वा प्रणामपूर्वकमुक्तम्-'किमहं नोपलक्षितः ?, युष्माकमहमनुजो धन्यः' । इत्युक्त्वा गृहे नीत्वा, सेवकैरभ्यङ्गस्नानमज्जनादिकं कारयित्वा, अत्यद्भुतवस्त्राकङ्कारान् परिधाप्य, वृद्धभ्रातृन् अग्रतः कृत्वा सहर्ष सविनयं यथो चितं विविधाऽद्भुता रसवती भुक्ता । आचमनं च कृत्वा गृहान्तर्भव्यासने यथोचितं भ्रातृन निवेश्य, पञ्चसौगन्धिताम्बूलादिकं च दत्त्वा, अतिबहुसत्कारपूर्वकं हस्तौयोजयित्वा, कौशाम्बी मुक्त्वा मालवगमनादिस्वरुपं पृष्टम् । तैामोद्वसनादि सर्वं स्वरुपं पोक्तम्। तत् सम्यग् अवगम्य धन्यस्तान् इत्यभाषत-'भोः पूज्या ! अधुना पूर्वानुभूतं दुःखं मा स्मरन्तु चित्तप्रसत्त्याऽत्र स्थातव्यम्। इयं लक्ष्मीरिदं सौधम् इमेऽश्वा इमे द्विरदा इमे ग्रामा भवदीयाः, अहमपि भवदीयोऽनुचरोऽस्मि, अतो यथेप्सितं तल्लात। किञ्च, या लक्ष्मीर्बन्धूनां भोगोपयोगिनी न जाता सा लक्ष्मीन प्रशस्यते । यथाऽब्धिवेलायामतिबहुतरं जलं, परं तीरस्थानामनुपकारि, तद्वद् बन्धूनामनुपभोग्या लक्ष्मीनिरर्थका। तथा मेरोः स्वर्णसंपत्तिवत् प्राप्ता रमा' में न रोचते,या चिरकालं परितो भ्राम्यतो'मित्रस्यापि १. लक्ष्मीः, २ स्वर्ण सम्पत्ति पक्षे सूर्यस्य (रमापक्षे) सुहृदः ॥३०॥ Jain Education Intematonal For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy