________________
|| २९९॥
स्थाने योजना मार्गस्य सरलताकरणाय च कम्बया ताड्यमानान् क्षीणलक्ष्मीकान् दुर्दशां प्राप्तान् स्वबान्धवान् भिया द्रुततरं धान्यगोणीरपसारयतोऽद्राक्षीत्। दृष्ट्वा च 'ईदृक् किम्?' इति संभ्रान्तस्वान्तो विचिन्तयति-"अहो! एतान् मम बान्धवान् राज्यधन-सुवर्ण-रुप्यादिनवविधपरि-ग्रहभरभारितगृहान् पञ्चशतग्रामाधिपत्ययुक्तान् अनेकशतसामन्त -सुभट-गजा-ऽश्व-पत्तिभिः सेव्यमानान् मुक्त्वाऽहमत्रागतः । हा! एतावद्दिनानां मध्ये ईदृशीमवस्थां प्राप्ताः । एवं कथं संभवेत् ? । अथवा विचित्रा कर्मणां | गतिः । दृढरसनिबद्धस्त पुराकृतकर्मण उदयं स्फेटयितुं न कोऽपि शक्नोतीति जिनागमवाक्यं नान्यथा भवति । अन्यैरप्युक्तम् - 04 __ "कतकर्मक्षयो नास्ति, कल्पकोटिशतैरपि। अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम" ||१||
चक्रवादिभिरपि विविधदुर्दशाऽनुभूता, तदेदृशानां का कथा ?"| इति विचिन्त्य पुनर्विभावयितुं लग्नः-"अहो! अहमीहक्सांसारिकसुखैः संपन्नः,एतान् पुनरग्रजांस्त्रीनपि किम् ईदृग्दुर्दशामनुभवतो द्रष्टुं शक्नोमि" ? । इति स्वान्तरभक्तितः । प्राह- 'भो भोः सेवका ! एतान् परदेशादागतान वेपारिणो मा मारयत, एतेऽस्मद्गृहे प्रीत्याऽऽनेतव्याः । इत्यादेशं कृत्वा चालिताऽश्ववारिका स्वगृहं प्रति। पृष्ठतः सेवकैस्तेषां प्रोक्तम्-'रेरेपारदेशिकाः ! चलन्तु अस्मत्स्वाम्यावासे शीघ्रम्, स्वामिनाऽऽज्ञा कृताऽस्ति यद् एते आनेतव्याः" । ते तु श्रुत्वा भीताः प्रोचुः किं करिष्यति गृहं नीत्वा?' | सेवकैरुक्तम्- 'अरे ! भयं मा प्राप्नुत, तद् अस्मत्स्वामी गृहागतं कमपि न दुःखं प्रापयति, प्रत्युत तस्य दुःखं स्फेटयति' । इत्युक्तेऽपि ते मनाक् शङ्कमाना धन्यस्य सौधं गताः ।सेवकै स्तान् सभायां नीत्वा स्वामिनाऽऽहूता एते आगत्या प्रणामं कुर्वन्ति, इति विज्ञप्तिः कृता । तदा धन्येनोक्तम्-भो व्यापारिणः !कुत्रत्या यूयम् ?।। तैरुक्तम्-“स्वामिन् ? मालवमण्डले वसामः । आजीविकालाभार्थं गोधूमगोणी त्वा बलीवन् |
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org