________________
॥२९८॥
तेन स्वयं कृषिकर्म कृत्वा धान्यमुपार्जितम् । तत्र गृहनिर्वाहयोग्यं धान्यं गृहे मुक्त्वाशेषधान्यस्य गोणी त्वा बलिवर्दैहियन्तो ग्रामाद्ग्रामं पुरात् पुरं भ्राम्यन्तो निर्भाग्यत्वाद् ईप्सितलाभमलब्ध्वा लाभमिच्छन्तोऽन्यदा मगधे राजगृहं गताः । तत्र चतुष्पथे धान्यगोणीरुत्तार्य धान्यपण्यं प्रष्टुं लग्नाः । तत्रापिअनेक देशादागतं धान्यं समर्थं जातमिति श्रुत्वा निराशा जाताः । निर्भाग्याणां सर्वत्राऽविहितो विधिर्भवति । यतः"अन्यद्विचिन्यते लोकैर्भवदन्यदभाग्यतः। कर्णेवसति भूषार्थोत्कीर्णे दारिद्रिणां मलः" ||१|| यत्र भाग्यहीनस्तत्र आपदोऽप्यग्रतो यान्ति। यतः
छित्वा पाशमपास्य कूटरचनां भकृत्वा बलाद श्वागुरां, पर्यन्ताग्निशिखाकलापजटिलाद निःसृत्य दूरं वनात्।
व्याधानां शरगोचरादतिजवेनोत्लुत्य धावन मृगः,
कूपान्तः पतितः करोति विमुखे किंवा विधौ पौरुषम् ॥१|| अथ तत्र भग्नाशा धान्यं विक्रेतुं चतुष्पथे स्थिता,, परं केनापि सह मूल्यस्य सत्यङ्कारो न भवति, तेन मार्गे धान्यगोणीनां वृन्दम् अनुत्साहतो यथा तथा पातितमस्ति।अन्येधुर्विविधातोद्यवादकैर्वाद्यमानः, पत्त्यश्वादिपृतनावृतो, बन्दिवृन्दैरनेकबीरुदानि पठ्यमानोऽश्ववारिकया नृपसभाया आगच्छन् धन्यो निजाग्रयायिभटेन अश्ववारिकास्खलनमाशङ्कय यथा तथा पतितगोणीनां १. मृग बंधनी
Jain Education in
For Personal & Private Use Only
ww.jainelibrary.org