________________
॥२९५॥
'प्रच्छन्नप्रयोगेणाऽत्रानीतः अतोऽधुना स्वगृहगमनं वरम् इति विचिन्त्य श्रेणिकायोक्तम्-"राजन् ! सज्जनसङ्गत्या कालो गच्छन् । न ज्ञायते,युष्माकं धन्या-ऽभययोश्च विरहं को वाञ्छति?, परं किं क्रियते?, राज्यं शून्यमस्ति, कस्यापि सत्यापनं कृत्वा नागतः,
पुनश्चलेनागमनं संजातं तेन तत्र विविधरीत्या लोका वावदिष्यन्ति, अतो ममाज्ञां ददातु भवान् यथा स्वदेशे यामि" || ततः पुनः 4 श्रेणिकेनाऽभयेन च आग्रहं कृत्वा कतिचिदिनानि रक्षितः । पुना राज्ञा विसर्जनाज्ञा मार्गिता । ततः श्रेणिकेन विसर्जनसामग्री |
कृत्वा, अनेकगज-तुरग-रथा-ऽऽभूषण-वस्त्रादि दत्त्वा, विविधैर्नवनवदेशोत्पन्नपदार्थस्तर्पयित्वा महाविभूत्या प्रद्योतो विसर्जितः । धन्येनापि अदृष्टपूर्वाणि वस्त्रा-भरणानि प्राभृती कृतानि । ततः प्रद्योतो धन्याऽभयगुणवर्णनं कुर्वन् निर्गतः । श्रेणिक-धन्याऽभयप्रमुखा विसर्जनार्थं कतिचिद्भुवं गताः । तत्राभयेन स्वकृतदम्भरचनाऽपराधः क्षमितः । प्रद्योतः साश्रुलोचनो वक्तुं लग्नः'अस्माकं त्वदीयदम्भरचना सुखाय संजाता, परं त्वद्वियोगो दुःखाय भवति' । अभयेनोक्तम्-"स्वामिन् ! पुनरहं पूज्यानां चरणानविन्द दर्शनार्थमागमिष्यामि। ममापि पूज्यचरणविरहो दुस्सहोऽस्ति परं किं क्रियते?, राज्यभारभारितो निर्गन्तुं न शक्रोमि तस्मात् सेवकोपरि सविशेषकृपा रक्षणीया" । इति परस्परं स्नेहनतिं कृत्वा बहुभिः सैन्यैः प्रद्योत उज्जनिन्यां प्रस्थितः । कतिपयैर्दिनैः क्षेमेणोज्जयिन्यां प्राप्तः । भव्यदिने महोत्सवपूर्वकं नगरप्रवेशः कृतः । तद्दिनतः श्रेणिकप्रद्योतयोः परसपरं पत्रोदन्तप्रेषण-यथावसर प्राभृतमोचनादिस्वजनस्थितिर्जाता। निजनिजस्थानयोग्रवपि सन्नयायपूर्वकं राज्यं कुरुतः ।
॥ इति प्रद्योताऽऽनयनाधिकारः॥
॥ अथ धनसाराधिकारः॥ १.प्राभृतकमुत्कपलापनाकि
॥ २९५॥
Jain Education
For Personal & Private Use Only
Marww.jainelibrary.org