________________
॥ २९२॥
Jain Education International
गृहीत्वाऽऽस्थानमागतौ। परस्परस्याऽत्याग्रहेण शिष्टाचारपूर्वकं द्वावपि समानविष्टरे निषण्णौ। ततो राजवर्गीयजना धन्यप्रमुखा महेभ्याश्च न्युञ्छनकरणपूर्वकं प्राभृतमग्रतो धृत्वा प्रणामं च कृत्वा यथास्थानमुपविष्टाः । ततः प्रद्योतेन धन्यो दृष्ट्वोपलक्षितः प्राह च अहो ! धन्य ! भवतो अस्मत् पार्श्वाद् प्रच्छन्नवृत्त्या गमने किं कारणम् ? अस्मामिस्तु न कीऽप्यनादरः कृतः । भवद्वचनमपि नोल्लङ्घितं येन कमप्यनापृच्छ्य सिद्धपुरुषवद् अलक्ष्यतया गतः । बहुभिः प्रकारैर्गवेषितः । परं न कुत्रापि लब्धः । भवद्विरहेणास्माकं महत्यार्तिर्जाता. तां तु कियतीं बदामः ? । भवता पुनस्त्रागत्य मगधाधिपनगरमलङ्कृतं, ततः परं कदापि लेखोऽपि सन्देशहारको वा कोऽपि न प्रेषितः एतद्धि भवादृशानां सज्जन-गुणिनां न घटते । 'सतां सप्तपदी मैत्र्यपि प्राणान्तं यावन्निर्वहति । आवयोः स्वामि-सेवकभावस्तु लोकोक्त्या कथनमात्रोऽभूत । मम मनसि तु अद्वितीयव्यसनसहायको भ्रातृतुल्यो वाच्याऽवाच्यकथनयोग्योऽन्तर्गतभाववेत्ता विश्वासभाजनमभूत । ईदृशे स्नेहसम्बन्धे ईदृशमौदासीन्यं कथं न दोषाय ? नेयमुत्तमानां रीतिः” । इति प्रद्योतराजस्य वचांसि श्रुत्वा धन्यः समुत्थाय प्रणामं च कृत्वा हस्तौ संयोज्य प्राह- 'कृपानिधे ! यत् पूज्यपादैरुक्तं तत्सत्यम् । ममैवाऽपराधिनो दोषः, स च स्वामिना क्षन्तव्यः । भवदीयकृपायाः प्रशस्तिं कथमहमेकमुखेन कर्तुं शक्नोमि ? यत ईदृशं सेवकस्य दोषाच्छादनं गुणाविर्भावकरणं, निरर्गलवृत्त्याऽऽजीविकादानं, सेवकोक्तवचसः सत्यापनं, सुरवृक्षवद् वाञ्छितपूरणं च कः कुर्यात् ? । भवत्कृपा प्रतिदिनं स्मृतिगोचरमायाति । अहं मम कर्मणाम् अशुभोदयप्रेरकेण गृहान्निष्काशितो, न तु स्वामिना । विषमा कर्मणां गतिः । ततो देशान्तरपर्यटनेन, स्थाने स्थाने गृहकरणव्यग्रतया, विसंस्थुलचित्तत्वेन प्रतिदिनमधिकाधिकवास्तल्योपेक्षया, पराधीनतया,
T
१. अस्मार्क मूल विस्मार्प मुक्ताः इन्यधिकः प्र. २ मैत्री सापि करोति प्र. ३ पर
For Personal & Private Use Only
|॥ २९२ ॥
www.jainelibrary.org