SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ ॥ २९० ॥ Jain Education International मानभञ्जनं न कस्यापि प्रियम महतां मानभञ्जनं तु महादोषभाजनम् । परं किं करोमि ? भवता धर्मच्छलेनाहं वञ्चितः । येषां | संसारिजीवानां येन राग-द्वेषवशेन यादृशं दम्भविलसितं कृतं १ तैस्तादृर्शेव बुद्धिप्रपञ्चेन प्रतिकृतिः कर्तव्यैव' इति नीतिशास्त्रम् । | परमेकं धर्मच्छलं मुक्त्वा प्रतिकृतिः कर्तव्या । दम्भदोषस्तु प्राणिभिः सर्वत्रापि वर्जनीय एव परं व्यवहारनिर्वहणे कथमपि कर्तव्यो भवति । स च लौकिकप्रपञ्चेन कर्तव्यो, न तु लोकोत्तरप्रपञ्चेन लोकोत्तरदरम्भस्तु महतां गुणवतां गुणान् पातयित्वा निगोदादिचार क्षिपति । अतो मया तद्दर्शनार्थ बालचापल्यं कृतम् !" एवमभयोक्तं श्रुत्वा प्रद्योतः शिरः कम्पनपूर्वकम् ईषद्विहस्याह हे अभय! यत् त्वयोक्तं तत् सत्यम् । परं धात्रा सद् बुद्धेर्दुर्बुद्धेश्च पात्रं जगति त्वमेक एव कृतः । त्वबुद्धिप्रपञ्चस्य देवा अपि न हार्दमाप्नुवन्ति, तर्हि अस्मदादीनां का कथा ? तव रोमे रोमे शतसहस्त्राणां सदसद्बुद्धीनां निवासः । कस्त्वदग्रे स्वकीयबुद्धिनां गर्वं कर्तुं शक्तः ? । त्वया पूर्वं यदुक्तमासीत् तत् सविशेषं कृतम्। मयापि त्वदग्रे हस्तौ योजितौ । वहु जातम् ! अधुना तु कृपां कृत्वा मां मुञ्च यथाहं मानं मुक्त्वा स्वगृहं यामि’” । अभय आह-‘स्वामिन्! एवं मा वदतु । यूयं तु मम पूज्यानां पूज्यतमाः, अहं तु तवाज्ञाकारकदासोऽस्मि, तवानुचरप्रायोऽहम् काऽपि हृदयेऽअधृतिर्मा विधेया, अस्मद्गृहे भवदागमनं तु अमरद्रुम-देवसरिद्- चिन्तारत्नानामागमनमिव मन्यामहे । मम पितापि | भवन्मिलनसमुत्सुकोऽस्ति, धनागमे कदम्बपुष्पमिव प्रफुल्लहृदयो भविष्यति । मम मातापि भगिनीपतेर्भवतो दर्शनेन चन्द्रदर्शनेन चकोरीवाऽत्तिहृष्टा भविष्यति । अतोऽहमीदृशच्छलेनाऽरङ्गभक्तिवशाद् राजगृहं नेतुमिच्छामि । भवदा गमनेन | शर्करामिश्रितपयःपानमिव परमेष्टसिद्धिसंयोगो भविष्यति । तस्माद् विगतशल्यचित्तेन भवता मन्मनोरथ तरुसफलीकरणार्थं सहर्षं तत्रागन्तव्यम् । अस्मिन्नर्थे मम चित्ते किमपि कूटं चेद् भवेत् तदा मम आराध्यपादानां शपथाः सन्ति । अहं तु मार्गे भवत्सेवां कुर्वत् राजगृहं सबहुमानं नीत्वा, युष्माकं मत्पितुश्च परस्परं निःशल्यां प्रीतिं कारयित्वा कतिपयदिनानि युष्मच्चरणसेवामनोरथं पूरयित्वा, For Personal & Private Use Only ॥ २९० ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy