________________
॥२८९॥
महेभ्यानां परस्परं नमस्कारादिनां प्रयाणव्यवहारंच कृत्वा महाकष्टेन पश्चाद्वालिताः। तेऽपि स्नेहेन साश्रुलोचनास्तद्गुणान् प्रथयन्तः 2 पुनः पुनः सिंहावलोकनं कुर्वाणाः पश्चाद् वलिताः श्रेष्ठिनोऽपि स्वेप्सितकार्यसिद्धिर्जाता । हर्षेण रथारुढो मार्गे चलितः । यावत्
स्वकीयसार्थेन मिलितस्तावता पञ्चयोजनपरिमितभूमिरुल्लङ्घिता । सार्थेनेत्थं मिलितः--योजनेऽर्धयोजने च स्थाने स्थाने पूर्वसङ्केतिता रथा-ऽश्व-भटो-ष्ट्रा रक्षिताः सन्ति, तत्र तत्र वाहन भटानां विनिमयं कृत्वाऽविच्छिन्नधारया धावन् गच्छति। श्रान्ता वाहन-भटास्तत्रैव तिष्ठन्ति, तत्रस्थाश्चाग्रे सह यान्ति।अनया रीत्या मार्गमतिक्रामति, क्रमेण सार्थं प्राप्तः । ततोऽभयेन सेवकेभ्य आदिष्टम्-खट्वायां-स्थापितं राजानं बन्धनाद् दूरीकुर्वन्तु, महाश्वरथे आरोपयन्तु, बहुलैरश्ववारैः परितो वेष्टयित्वा चाटुवचनानि वदन्तः सूर्यातपत्रैश्चातपं वारयन्तः कुत्राप्यस्खलयन्तो मार्गमतिक्रमयन्तु । यद्यत् समादिशति तत्तत् सविनयं कर्तव्यम् । अहमप्यागच्छामि''। सेवकानां च तथा कुर्वतां दृष्ट्वा ज्ञाताशयेनापि प्रद्योतेन पृष्टम्-'कस्यादेशेन बन्धनान्यन्यथाकृतानि, महारथे च स्थापितः?' | सेवकैरुक्तम्-'अस्मत्स्वाम्यादेशेन' । 'कुत्र युष्माकं स्वामी? | तैरुक्तम्-"स्वामी समागच्छति, इतो नातिदूरे वर्तते। यद्यत् पूज्यपादानां कार्यं भवेत् तस्य नः समाज्ञा दातव्या। एते सर्वेऽपि स्वकीयाः सेवका ज्ञेयाः" ।इत्येवं वदद्भिस्त्वरितगत्या च गच्छद्भिर्दिनावसानं यावद् विंशतियोजनान्यतिक्रान्तानि।अभयोऽप्याग त्या मातृष्वसृपतिं प्रणम्य प्राह-'महाराज! मम बालकस्य प्रणामोऽस्तु । मया बालकेन स्ववचनपालनार्थं कृता एतेऽपराधाः क्षन्तव्याः । यूयं तु मम पूज्याः सेवनार्हाः, युष्माकं यदविनयेऽहं प्रवृत्तस्तन्मया महत्याशातना कृता सा च कनकतुल्येन स्वामिना क्षन्तव्या । तु भवादृशा वृद्धा गभीराश्च ते शिशोरज्ञानविलसितं दृष्ट्वा न कोपं कुर्वन्ति, प्रत्युत हितमेव आचरन्ति । अहं शिशुर्युष्मदने कियन्मात्रः ?। अहं युष्मदादेशकारकोऽस्ति । जगति
॥२८९॥
For Personal & Private Use Only
ww.iainelibrary.org
Jain Education