SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ बुद्धिकौशल्यम् !। कियती दम्भरचनां कृत्वा मां बद्ध्वा याति? । अतोऽत्र लज्जया कार्य विनक्ष्यति,एतान् पुरजनान् सेवकांश्च ज्ञापयामि यथां मां मोचयन्ति। पश्चाद् यद् भाव्यं तद् भवतु, अनेन दुर्बुद्धिना वञ्चितः पूत्करणं विना न १च्छुटिष्यामि' इतिध्यात्वा पूत्कर्तुं लग्नस्तावता श्रेठ्यपि अडम्बरपूर्वकं चलितः । राजा तु वदितुं लग्नः-अहो अमुकश्रेष्ठिन् ! अहो अमुकग्रामाधिकारिन् ! भो भो नगरजनाः ! मां मोचयत । अयमभयो मां गृहीत्वा याति, किं पश्यथ?,शीघ्रं मोचयत। भो भोः सामन्ताः! किं मोनोपलक्षयथ?| कपटेन मां गृहीत्वा याति मोचयत!'। एवं पुनः पुनः पूत्करोति, परं नित्यं प्रवाहपतितश्रवणाद् न कोऽपि मनसि आदधाति । केचन जनास्तुं वादित्रवादन बन्दिजनबीरुदपठन-सङ्गीतश्रवणव्यग्राः श्रवणमेव न कुर्वन्ति, केषां तु बहुकोलाहलशब्देन २बधिरीभूतदिगन्ततया तदुक्तं न कर्णगोचरीभवति । श्रेष्ठिना तु सर्वेषामग्रे ३प्रोक्तम्-'अहो ! त्वरया नगराबहिर्गन्तव्यम्, अग्रे कुयोगो लगिष्यति। इति कृत्वा त्वरितगत्या नगराबहिर्निर्गतः । खट्वास्थितेन प्रद्योतेन बहुधा पूत्कृतं परं नित्यक्रियां मन्यमानैर्जनैर्न कैरपि कर्णे घृतम् । एवं नगराद् बहिः कियती भूमिमुल्लङ्घय वयं सर्वेषां पश्चाद्वालनमिषेण तत्र स्थितः । जनवृन्दं कोलाहलश्च तदैव स्तम्भितः । श्रेष्ठिना स्वसेवकेभ्य आदिष्टम्-'युष्माभिरिमं खट्वास्थितं भ्रातरमादाय त्वरितगत्या द्विघटिकाकालमात्रादर्वाग् नगरसीमा मोक्तव्या, यथा कुयोगस्पर्शो न लगेत्' ततः सेवकास्तां खट्वामायादायाग्रतो घावन्तो गताः। श्रेष्ठिना सर्वजनानामग्रे पुनरुक्तम्-'अस्माकं तु एतत्सर्वकरणं भ्रातर्थेऽस्ति, नान्यथा' । सर्वैरुक्तम्-सत्यं कथयति भवान् , वयं जानीमः । भवत्सदृशं स्नेहपात्रं को भवेत्, यो नित्यं परिश्रमेणोषधादीगणितोपायांश्च ४कुर्यात् ? अतस्तत्र तीर्थे गत्वा स्वेप्सितसिद्धिर्देवताप्रसत्त्या शीघ्र भविष्यति, भवतु एवं सर्व जनैराशिषो दत्ता । ततः श्रेष्ठिना आतोद्यवादक--बन्दिगायकानां स्वस्वमुखमार्गितं दत्त्वा, सर्वेषां ॥२८८॥ Jain Education Intel For Personal & Private Use Only Pen.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy