________________
श्रीधन्य- चरित्रम्
अष्टमः
पल्लवः
L/पल्लवः
॥२८६॥
विपाकमयं भुङ्क्ते, मनः स्थिरं मौनं च कृत्वा स्वकार्यं कुरु' । एवं कुर्वतामेकरात्र्यन्तरे प्रयाणदिनः समागतस्तदा ताभ्यां प्रियसखी दूतीगृहे प्रेषिता । तयापि तत्र गत्वोक्तम्-'कल्ये प्रथमचतुष्कघटिकाभ्यन्तरेऽस्मत्स्वामी प्रयाणं करिष्यति, सर्वेऽपि बाह्याभयन्तररक्षकजनाः कियत्यां भुवि वोलापनकार्यार्थ यास्यन्ति. तेच पाश्चात्यप्रहरे पुनरागमिष्यन्ति। अतः प्रभाते एकप्रहरदिने चटिते भूपेन सामान्यवणिग्वेषेण एकाकिनवागन्तव्यम् । अहं पुनरामन्त्रणार्थमागमिष्यामि, अग्रतश्च दूरदूरगतिं करिष्यामि, ततो मम पृष्ठलग्नेन राज्ञा यथा कोऽपि न वेत्ति तथा वस्त्रादिना शीर्षमाच्छाद्य विजनद्वारदेशं यावद् आगन्तव्यम् । अहं त्वरयाऽग्रतो गत्वा द्वारमुद्घाटयिष्यामि । श्वः प्रहरद्वय यावद् विजनं भविष्यति। मनसेप्सिता बहुमनोरथाः सफला भविष्यन्ति । अतो मां राज्ञः समीपे नयतु तथा सर्वं निवेदयामि" । इति तयोक्तं श्रुत्वा सहर्ष राज्ञः समीपं नीता। तत्र च तया सर्वं निवेदितम् । तच्छुत्वा राज्ञा प्रमुदितेन वस्त्राभूषणादिकं प्रच्छन्नतया दत्तावा सा विसर्जिता। विसर्जनावसरे तया पुनरुक्तम्-'तयोश्चेद् जीवापनं कर्तव्यं तदान कस्याप्यग्रे वाच्यम्। ते एषाऽहं भवांश्चेति पञ्चवैतां वार्ता जानीमः पष्ठो न कोऽपि । राज्ञोक्तम्-'खेदं मा कुरु, तथैव करिष्यामि'।
ततो द्वितीयदिने श्रेष्ठिना गृहान्तः प्रच्छन्नतया परितो भटा रक्षिताः । स्वयं तु महावासस्य चतुष्पथं गतः । द्वारास्थाने स्थित्वा विसर्जनार्थं महेभ्यदत्तश्रीफल-रूप्यकादीनि गृह्णाति, याचकादींश्च यथायोग्यं दत्त्वा विसर्जयति । एवम् एकयामचटिते दिवसे ताभ्यां प्रियसखी सङ्केतितप्रदेशे राज्ञ आमन्त्रणार्थं प्रेषिता। राजाप्यग्रत एव दूत्युक्तसामान्यवणिग्वेषं धृत्वा तयोः संयोगमनोरथान् कुर्वन् एकाक्येव सङ्केतितस्थले स्थितोऽस्ति। तया च तत्र गत्वा दूरतो भूसंज्ञया आह्वानं कृतम्। राजापि तद्दर्शनमात्रेण विजनपथे निःसृतः, सा चाऽग्रतश्चलति, सिंहावलोकनेन विलोकयन्त्या यावत् स्वगृहस्य विजनद्वारमागत्य हस्ततालिदत्ता तावता
१.स्वयं ।
Tww.jainelibrary.org
in Education
matinal
For Personal & Private Use Only