SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य अष्टमः चरित्रम् पल्लवः ॥२८५॥ ऋणं कस्यापि न रक्षणीयम् । जगति ऋणसम दुःखं नास्ति। ग्रामान्तरगमने तु विशेषतो न रक्षणीयम्, यतः कालस्य कलनां न कोऽपि वेत्ति । कल्ये किं भविष्यतीति को जानाति ? । अस्थिरः कायः, विद्युल्लताचञ्चलं जीवितव्यम् । आयुषि समाप्तिं गते तु भवान्तरे ऋणं दशगुणं शतगुणं सहस्त्रगुणं ततोऽप्यधिकं वा देयं भवति। तस्मात् स्वस्वलभ्यं लात्वा गच्छन्तु। अस्माकं कार्यसिद्धिं कृत्वा पुनरागमने तथैवास्तु' । इत्येवं शिष्टोपदेशपूर्वकं सर्वेषां देयं दत्त्वा निश्चिन्तो जातः । तेऽपि स्वस्वलभ्यं लात्वा श्रेष्ठिनः प्रशंसा कुर्वन्तः स्वस्वगृहं गताः । सर्वत्र नगरे विदितं जातं यद्-'अमुकदिने श्रेष्ठी बहिर्निःसरिष्यति, अमुकदिने च प्रयाणं करिष्यति,।ततः श्रेष्ठिना मुहूर्तदिने शिबिरावासाः नगराद् बहिरुद्याने मोचिताः, रथ-शकटो-ष्ट्रादि च तत्रावासितं, तद्रक्षार्थं सेवकाः स्थापिताः। कूटग्रथिलोऽपि तत्रावासितः । प्रत्यहं श्रेष्ठी तत्र याति, किञ्चिद्वेलं तत्र स्थित्वा पुनरायाति । ग्रथिलोऽपि सङ्केतितसमये प्रत्यहं नंष्ट्वा नगरान्तरागच्छति, पूर्वोक्तयत्तद्वाचं प्रलपति, बहुधा ग्रथिलक्रियां च करोति । द्विविघटिकान्तरे श्रेष्टयपि सेवकैः खट्वां ग्राहयित्वा धावतः पृष्ठतो गच्छति, पूर्ववद् अतिकष्टेन खटूवायामारोप्य बध्ध्वा च 'अहं प्रद्योतो देशाधिपतिर्युष्मत्स्वामी, माम् अभयो गृहीत्वा याति किं न मोचयन्ति भवन्तः ?' इति बदन्तं ग्रामाद् बहिहियित्वा श्रेष्ठी गच्छति । तदा दृट्टस्थिता लोकाः संप्रवदन्ते-'अनया विडम्बनया। विडम्बितः श्रेष्ठी तीर्थाय गच्छति प्रत्यहमीदृशीं विडम्बनांकः सहते?धन्योऽयं श्रेष्ठी, धन्योऽस्य स्नेहो यो नित्यमीदृशं निर्वहति' । इत्येवं श्रृण्वन् श्रेष्ठी गच्छति आगच्छति । परं न कोऽप्यु त्तिष्ठति न च कोऽपि पृष्ठे गच्छति । यदा कोऽपि किमपि वदति तदाऽन्यो वदति-किमाश्चर्यमत्र?, इयं नित्यक्रिया सर्वेषामपि नागरिकाणां विदिताऽस्तिापूर्वजन्मकृतकर्मणां १. 'शास्त्रे चोक्तं- इक्कस्स इसगुणा दव्वं इत्यादि' इति प्रत्यन्तरे अधिकः पाठः । २'इति वार्ता प्रथिताः' इति अधिकः पाठः । ॥२८५॥ Jain Education For Personal & Private Use Only wainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy