________________
श्रीधन्य-
अष्टमः
चरित्रम
पल्लवः
॥२८४||
अथ ताभ्यां स सर्वो व्यतिकरः श्रेष्ठिने निवेदितः । तेन श्रेष्ठिनापि द्वितीयदिने सर्वानपि महेभ्यव्यापरिणः समाहूयोक्तम्"मम यद् भ्रातृदुःखमस्ति तत्तु भवतां विदितमस्ति । घनैरपि औषधमन्त्रादिभिः सज्जो न भवति । एकदाऽस्मद्गृहे भिक्षार्थं दूरदेशादेकोऽतिथिः प्राज्ञः समागतः, स उपकाररसिको मद्दुःखं दृष्ट्वा वक्तुं लग्नः-'भोः श्रेष्ठिन् ! किं वृथा प्रयत्नं करोषि ? अयं तु दुष्टदेवतयाऽधिष्ठितोऽस्ति, आते न केनाप्युपायेन सज्जो भविष्यति । परं चेत्तव सज्जीकरणेच्छास्ति तदा त्वममुकतीर्थे गच्छ, तत्राशापुरीनाम्नी देव्यस्ति, तस्या देवालयाग्रे सर्वदोषघातकं सर्वापद्धरं नाम सरोऽस्ति, तत्र च एकविंशतिदिनानि यावत् स्नानं कारयित्वा देव्याः पूजनं कारय, तदा सर्वे दोषा विलयं यास्यन्ति' । इति तद्वचः श्रुत्वा एकमासमध्ये तत्र गमनार्थं मया विषमाऽर्गला गृहीताऽस्ति, अतो मया त्वरया तत्र गन्तव्यम् । तत्र गमनागमने मासास्त्रयश्चत्वारो वा लगिष्यन्ति । तस्मात् सर्वे जनाः स्वकीयस्वकीयलभ्यं लात्वा गच्छन्तु, देयं च ददतु" । ततः सर्वे महेभ्या वक्तुं लग्नाः- श्रेष्ठिन् ! सुखेन भवद्भिस्तत्र गम्यतां, देवताया आराधनं कृत्वा कुंडे स्नानादिकं च कृत्वा (कारयित्वा) स्वभ्रातुः दोषनिवारणंच कार्यतां, भवतां भ्रातुः सज्जीभवनेऽस्माकं महत् हर्ष, यतो भवतां भ्रातृदुःखविडम्बना द्रष्टुं न शक्यते । भवादृशानां सत्पुरुषाणामीदृशी विडम्बना न युज्यते । वयं तु प्रतिदिनमाशिषं दो यद् श्रेष्ठिनो विडम्बना दूरिभवतु । लभ्यस्य चिन्ताऽस्माकं नास्ति, यतो भवतां पार्श्वे लभ्यं तद् अस्मद्गृहे एवास्ति। वयं तु भवदगण : क्रीताः स्मः । अतस्तत्र गत्वा मनस ईप्सितसिद्धिं कृत्वा त्वरयाऽत्रागच्छन्तु, येन भवतामस्माकं च सर्व सुखं जायते" । एवं मेहभ्यानां वचांसि श्रुत्वा पुनः श्रेष्ठी प्राह-"भोः सज्जना भ्रातरः ! मम त्रिधा प्रत्ययोऽस्ति यूयं यद्द्वदथ तत् सत्यमेवास्ति। यूयं सर्वेऽपि मम शुभचिन्तकाः । युष्माकं शुभचिन्तनेन मम कार्यं निर्विघ्नं भविष्यत्येव । परन्तु अयं व्यवहारोऽस्ति,
॥ २८४॥
Awww.sainelibrary.org
Jain Education Intematon
For Personal & Private Use Only