________________
श्रीधन्यचरित्रम्
॥२८३||
तदा आवामपि सेवां करिष्यावः । परम् एषा वार्ता राजानं विना न कस्याप्यग्रे वाच्या । भवती सर्वतः कुशलाऽस्ति, अतो | वक्तव्यमनुचितम्। परमावयोः पारवश्यमधिकतरमस्ति तेन भयेन पुनः पुनर्वच्वः । किं बहुना?, अस्मल्लज्जा तव हस्तेऽस्ति' यथा कोऽपि न जानाति तथा कर्तव्यम्"। इत्युक्त्वा तया यह श्रेष्ठिनोऽनुज्ञया अधिकतराणि वस्त्र-धनादीनि दत्तानि, बहिः स्थिताश्च राज्ञो दासी-सेवका यथायोग्यं चिन्तितादधिकतरं दत्त्वा विसर्जिताः । सर्वे प्रसन्न भूत्वा गताः । दूत्यपि सहर्ष मार्गे चिन्तयति'मम भाग्योदयेनैतत् कार्य हस्ते लग्नम् । कार्ये जाते राजा महाप्रासादं करिष्यति; एते अपि महेभ्याङ्गने स्तः, तेन सहर्षं धनं द्रव्यं दास्यतः । तत उपराजं गत्वा दूत्योक्तम्-'स्वामिन् ! मया तवादेशसिद्ध्यर्थं महाप्रयत्नेन-महाप्रयासेन कार्यं निष्पन्नप्रायं कृतं परं ते तु अत्रागन्तुं न शक्नुतः । अहमपि तयोर्गृहे महाप्रयत्नेन गन्तुं शक्ता । राज्ञोऽन्तःपुरादपि तयोहानिस्सरणं विषमम्, परं मया तव सेवाकारिण्या तव पुण्यबलेन वचनरचनया त्वद्विषये गाढमनुरागिण्यौ कृते । परन्तु सामान्यवेषेण एकाकिन्येव त्वयि गते कार्य भविष्यति, यथाऽवसरेऽहं स्वामिनं ज्ञापयिष्यामि । तयो रूपं लावण्यं चातुर्यं सुभगत्वं च यथा भवता वर्णितं तस्मादधिकतरं दृष्टम्। अनयोर्दर्शने को न मुह्येत् ? । भवतः पुण्यबलेनैव कार्यं जातम् । इति दूत्योक्तं श्रुत्वा सहर्षस्तां नृपः प्रत्युत्तरयितुं लग्नः-'भो विदुषि ! अहं जानामि तव वाक्कौशल्यम् । मयाऽपीदृशीं ज्ञात्वा त्वं प्रेषिता । इत्युक्त्वा भूरिधन- वस्त्रादीनि दत्त्वा विसृष्टा । राजापि तद्दिनाद् आशागर्दभीपाशे पतितो महाऽत्वं प्रेषिता' । पतितो महानर्थरूपान् मनोरथान् कुर्वन् कल्पनाजाले पतितो मनसा उग्रकर्मबन्धान प्रकल्पयति।
१. विसर्जिता।
॥२८३॥
Jain Education
For Personal & Private Use Only
Jww.iainelibrary.org