SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् अष्टमः पल्लव: "अश्वप्लुतं माधवगजितं च, स्त्रीणां चरित्रं पुरुषस्य भाग्यम्। अवर्षणं चाप्यतिवर्षणं च, देवो न जानातिकुतो मनुष्यः?" |||| इत्यादि ब्यक्तम् । अतो युवयोर्यद् योग्यं प्रतिभाति तत् सत्यम् । युवायोरग्रेऽहं कियन्मात्रा?" | इति दूत्योक्तं श्रुत्वा ते | अप्यूचाते-'सखि! इदमतिदुष्करं कार्यम्। आवाभ्यां तु गृहान बहिः पदमात्रं धर्तुं न शक्यते। पञ्जरगतशुकवद् निवसावः । सर्वेषां | मर्यादा पालनीया। तस्मात् कोऽप्युपायो दृष्टौ नागच्छति येन चिन्तितं सफलं भवेत्। परन्तु एकौपायश्चेद् भाग्योदयेन सफलीभवति तदा तद्योगो मिलति । पञ्चदशदिवसानन्तरं विंशत्यनन्तरं वा इतो नगरात् पञ्चदशयोजनानामुपरि अमुकदेवस्य तीर्थमस्ति, तत्र अस्मत्स्वामिना कस्यचित् कार्यस्य सिद्ध्यर्थपुराऽर्गला कृताऽभूत्. तत्कार्यं तु निष्पन्नम्, अतस्तत्र स्वयमेव वृद्धासहितो गमनेच्छां करोति । स यदि तत्र गमिष्यति तदाऽवसरोऽस्ति । तथापि आवयोस्तु तत्रागमनं न भविष्यत्येव, यतः पुरातनीयाः विश्वसनीया : सेवकाः कस्यापि गृहप्रवेष्टुं न ददति, आवयोस्तु गृहात् पदमात्रमपि बहिधृर्तुं न ददति । परन्तु अस्मिन् महामन्दिरे गुप्तमेकं पिहितद्वारमस्ति. तद्द्वारतालकस्य कुञ्जिकाऽरमत्पार्थेऽस्ति। यदि राजा सामान्यवणिग्वेषेण एकाकी आगच्छेत्तदा तु चिन्तितं सफलं भवेत् नान्यथा अतः परं भवत्यापि अस्मत्पाधै नागन्तव्यम्, यतोऽ स्मत्स्वामी वृद्धा च महाशङ्कितौ वर्तेते । परम् एतेषां गृहमनुष्याणां मध्ये एकैव आवयोर्हृदयहारिका प्रियंवदानाम्नी प्रियसख्यस्ति अतीव निपुणा । सा च गम्भीरतया गुह्यं निर्गुहति,, प्राणान्तेऽपिन कस्याप्यग्रे कथयति, अतो यथावसरे भवत्या अग्रेप्रेषयिष्यावः, सर्वं विशदरीत्या कथयिष्यति, तद्भवत्या राज्ञोऽग्रे निवेदनीयम् । यथार्ह निपुणतया राज्ञोऽत्रैकाकित्वेन गुप्तद्वारेण भूत्वाऽऽगन्तव्यम्, तदा च राज्ञ आवयोश्चेप्सितं फलवद् भविष्यति, ॥२८२॥ Jain Education in For Personal & Private Use Only Trw.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy