________________
श्रीधन्य
अष्टमः
चरित्रम्
पल्लवः
॥२८॥
दुःखं तु मेरुतुल्यमनुभवावः । तदुःखवारणायात्मनो बहुतरा शिक्षा दत्ता-'हे जीव ! त्वमन्तर्गडुमाशां किं करोषि ? | स्वर्गस्थितकल्पवृक्षफलेच्छावत् सर्वं निष्फलमस्ति । क्व त्वं क्व च राजा ? । केनोपायेन युवयोर्मिलनं भवेत् ? । जाति -कुलस्वामि-गृह-लोक-वृद्धादिभयसङ्कटे पतितस्त्वम्, सोऽपि च विषमां लोक-राजनीतिमुल्लङ्घयितुमसमर्थः, तत्कथं सङ्गमः सम्भवति? किञ्च, इहलोकेऽतिगुप्त पापं क्रियते तद् अतिदुर्गन्धलशुनादिगुप्तभक्षणवद् विदितं भवति तदा गृहस्वामिना गृहनिष्काशनं लोकभण्डनादि चाऽनेकदुःखौघपतनम्। परलोके तु कुम्भीपाकपीडनतप्तलोहपुत्तलिकालिङ्गन- वैतरण्युत्तरणच्छेदन-भेदन-ताडन-तर्जनाद्यनेकधानरकपालादिकृ ताऽवचनीयपीडासहनम्, तथा क्षणमप्यविराम क्षुधादिदशवेदनासहनमवश्यं भवति तत्र न कोऽपि मोचयति। ततोऽपि निगोदे यदनन्तं दुःखं तत्तु वचनाऽतीतम्। इत्येवं दुःखौधं क्षणमात्रसुखार्थं कोऽज्ञोऽङ्गीकरोति ?' इत्वेयं भगिनि ! आवाभ्यां जीवस्य शिक्षा दत्ता, तथापि न 'विरतः । पुनरश्ववारिकाऽवसरे आतोद्यानि श्रुत्वा मनो द्रष्टुंधावति, परं किं क्रियते ?, मध्यगतसूच्या चम्पकवद् विकल्पकल्पनाकल्लोलकदर्थनया क्लेशमनुभवावः । अतोऽस्मदागमनं तु नैव भवतीति सिद्धान्तः । तस्माद् हे भगिनि ! तव चित्ते काप्यन्या बुद्धिः प्रभवति ?, यथाऽऽवयो मनोरथस्त्वदागमनं च सफलं भवेत्" । इति तयोरुक्तं श्रुत्वा प्रकृत्या जडतां प्राप्तां पुनर्वक्तुमपि न शक्नोति । पुनः प्रेरणे साह-"स्वामिन्यौ ! अहं किं वदामि ? । राज्ञोऽग्रे बीटकं स्पृष्ट्वाऽत्रागता । अत्र तु ईदृशं विषमम् !, अतो ममैकतो व्याघ्र एकतो नदीव सङ्कटमापतिम् । अधुना तु युवयोर्हस्ते मम लज्जाऽस्ति, रक्षतं वा निमज्जयतं वा ,। शास्त्रे हि चतुराऽङ्गनाया बुद्धिर्निस्सीमा कथिता । यतः
१. विरमति।
in Education Interational
For Personal & Private Use Only
www.jainelibrary.org