________________
श्रीधन्यचरित्रम्
अष्टमः
पल्लव:
॥२८॥
तु दूरतरमेव । अद्य यावद् गृहद्वारं मुक्त्वा बहिः पादो न धृतः। रथादुत्तीर्य गृहं प्रविष्टे स्वः, तत् यदाऽनो-दकसम्बन्धे पूर्णे जाते स्वामी स्वगृहगमनायोद्यमं करिष्यति तदाऽऽवयोरपि निर्गमन भविष्यति। किञ्च, अस्माकं गृहे कुलवृद्धा एका धर्मैकरता जरत्यस्ति, सा तु क्षणमात्रमावयोः पार्थं न मुञ्चति, प्रतिक्षणं च धर्मानुगा शिक्षां ददाति । कैरपि शुभशकुनैः प्रेरिता यूयमागताः , यतः साऽद्य स्वामिना कस्मिन्नप्यतिपरिचितगृहे लोकाचारार्थं प्रेषिताऽस्ति, तद् आवयोरियति मुत्कलेन हृदयेन वार्ता जाता, चेद् गृहे भवेत्तदा | वार्ता कुतो भवेत् ? । ईदृश्यां गृहस्थितौ निवसावः । एवमेकदा दैवयोगेन मध्याहे विजने पाश्चात्यगृहगवाक्षे इतस्ततः परिभ्रमणं कुर्वत्यौ आगते, सा तु गृहकार्यव्यग्रा गृहकार्यं करोति । अस्मिन्नवसरे महाराजस्याश्ववारिका निर्गता । तदा च तूर्याणां शब्दं श्रुत्वा तद्दर्शनेच्छया गवाक्षद्वारमुद्घाट्य पटमपसार्य द्रष्टुं प्रवृत्ते चेत् सा भवति सदा द्रष्टुं न ददाति परं विजनत्वात् स्वेच्छया द्रष्टुं प्रवृत्ते। अस्मिन्नवसरे हस्तिस्कन्धाधिरूढो महीपतिर्गवाक्षसमीपं निर्गतस्तदा आवयो राज्ञश्च दृष्टिमेलापको जातः । तदा च केनापि पूर्वकृतकर्मणामुदयेन कोऽप्यनिर्वचनीयो यो रागोदयो जातस्तं स्वचित्तं जानाति ज्ञान्येव वा जानाति। राज्ञापि तादृश्येवाऽनिमेषा दृष्टिरावयोरुपरिदृष्टिपथं यावद्रक्षिता, पश्चात्तु मार्गान्तरत्वेन अक्ष्णोरदृश्यतां प्राप्ते । ततस्तद्विरहेण यदुःखमुत्पन्नं तद्द्वक्तुमपि न शक्यते । को जानाति कस्मिन् जन्मनि दृढतररागनिबद्धं कर्म इह जन्मन्युदितं ?, यत् क्षणमपि हृदयान्नोत्तरति । पुनर्द्वितीयदिनेऽपि दर्शनोत्सवो जातस्तदा तुपयसि सितोपलायाः क्षेपेणेव अतिदर्शनसुखमनुभूतम्। पुनः पूर्ववत् तद्वियोगे दुष्टव्रणे क्षारक्षेपादधिकतरं दुःखं समुत्पन्नम् । तद् विदितचौरमणमातृवत् कस्याग्रे कथ्यते ? । इत्येवं तद्दिनतो नित्यं सर्षपतुल्यं सुखं, १. गृहदेहलीम्।
॥२८०॥
For Personal Private Use Only
Jan Education tematang
www.ainelibrary.org