________________
श्रीधन्य
चरित्रम्
अष्टमः पल्लवः
॥२७९॥
त्यक्त्वा ध्येयप्रियो योगीव सर्वत उदासी तिष्ठति, युवामेव ध्यायति, पुरः पृष्ठे उर्ध्वम् अधः उभयपार्श्वयोश्च सर्वत्र युवामेव पश्यति, नान्यत् किमपि । एवं तस्य दुःखार्दितस्य विच्छायवदनादिकं दृष्ट्वा मया आग्रहेण पृष्टम्, यतोऽहं तस्य परिचारिका हृदयहार्दज्ञायिकाऽस्मि । ततो मदग्रे सर्वं हृद्गतं दुःखमावेदितम् । तच्छुत्वाऽहमपि तदुःखसंविभागिनी जाताऽस्मि । ईदृशीमवस्थामनुभवति तत्तु भवत्योर्मनसि न किमपि ? | अहो ! तस्य प्रेमार्द्रत्वम्, अहो ! युवयोहत्कठोरत्वम् ! । यतः षोडशमुकुटबद्धराजाधिराजानां नायको भूत्वा ईदृग्रागरक्तो युवां स्पृहयति अतस्तदुःखमसहमानया मया बुद्धिबलं कृत्वा युष्मत्सन्दर्शनार्थम् एतानि कारणानि सम्मेल्य महायासेन युवयोर्दर्शनं कृतम्। अतो युवां हृदयमातरं कृत्वा मदुक्तं हृदि धारयतम् । 'यो यं स्मरति स तं सुतरां स्मरति' इति सज्जनप्रकृतिघोटके धावति, परमश्ववारो न जानाति दुर्जनप्रकृतिम् । तस्मात् कृपां कृत्वा तस्य मनोरथान् पूरयतम्। तस्य तुमनो-वाक्-काय-धन-जीवितव्याधिकतरे युवाम्। यादृक् तस्य युवयोरुपरि ध्यानैकत्वं तादृक् चेद् ईश्वरोपरि अध्यात्मवासनया ध्यानं भवेत् तदा मुक्तिरपि न दुर्लभा । अतः किं बहुना जल्पितेन?, मदागमनं सफलं कर्तुमर्हतः।
__ इति दूत्योक्तं श्रुत्वा ते द्वे अपि दीर्घ निःश्वस्य प्राहतुः-"भगिनि ! किं क्रियते?, आवयोस्तु 'अहिच्छच्छन्दरी' न्यायेन | महद्दुःखमापतितम् । यत आवाम् इभ्यवरगृहे जाते, महेभ्य गृहे च परिणीते । पुराकयाऽप्यस्य कुले ईदृशं कार्यं स्वप्नेऽपि न कृतम् । आवाभ्यां च अद्य यावत् प्राणनाथं विना न कोऽपि पुरुषो दृष्टः, केनापि सह वचनालापमात्रमपि नाभूत्। आवयोर्धवस्तु धर्म-नीतिमार्गेभ्योऽन्यत् किमपि न वेत्ति। अस्मद्गृहे दासी-दासादिः कोऽपि धर्म-नीतिविरुद्धं जल्पितुमपि न शक्नोति, करणं
For Personal & Private Use Only
sain Education international
Jww.sainelibrary.org