SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ २७८ ॥ Jain Education International स्वरूपं दृष्ट्वा चमत्कृतचित्ता चिन्तयति- 'अहो ! अनयोः स्वरूप-चातुर्य-लावण्यै राजा विभ्रमे पतितोऽस्ति तत्र किमाश्चर्यम् ? | अनयोर्हावभावादि दृष्ट्वा को मुनीन्द्रो वा मूर्खेन्द्रो वा स्थिरचित्तो भवेत् ?' । इति ध्यायन्ती तयोरभ्यर्णे गत्वा स्थालमग्रे ढोकयित्वा प्रणामं कृत्वा शिष्टाचारपूर्वकं बक्तुं लग्ना--'भाग्यनिधी ! राज्ञा स्वयं देवार्चनमहोत्सवस्यायं शेषोऽतिप्रीत्या मुत्कलापितोऽस्ति, युवाभ्यां सुखप्रश्नश्च पृष्टः । युष्मद्गृहस्वाम्युपरि बहुतरं प्रसन्नचित्तोऽस्ति, अतिबहुतरं च रागं बिभर्ति । 'यो गृहपतिरीदृशोऽस्ति तस्य गृहिण्यौ अपि तादृश्यौ भविष्यतः, अतस्तयोः सबहुमानं सुखप्रश्नः कार्यः, इति श्रीमुखेन मया सार्धं कथापितम्" । इति श्रुत्वा पूर्वशिक्षिताभ्यां द्वाभ्याम् ईष्द् विहस्योक्तम्- " भवत्या यदुक्तं तत् सत्यम् । राज्ञः कृपया प्रजालोकानां सुखं भवति परन्तु पुरुषप्रधानो व्यवहारः पुरुषानधिकृत्य प्रशस्तिवाक्यकथनं समाश्वासकारि दृश्यते, परन्तु भवत्या यदुक्तं 'राज्ञा युवयोः सुखप्रश्नः कृतः' तत्तु 'अवसरोचितं सर्वत्र प्रियं च वक्तव्यम्' इति नीतिनिपुणानां भवतीनामेव वाक्चातुर्यम् । यतो वयं क्व ? राजा क्व ? | क्वचित् कथञ्चिदुपलक्षणं भवेत्, ततः प्रथमं परस्परमिलनं भवेत् ततः पश्चात् प्रियसम्भाषण - सन्देशादिकथनं संभाव्यते, नानन्यथा । आवाभ्यां तु राजदर्शनमपि कृतं तर्हि सुखप्रश्नः कुतः सम्भाव्यते ?" एवं तयोरुक्तं श्रुत्वा दूत्या ईषद्विहस्य, इतस्ततो विलोक्य, विजनं दृष्ट्वा, तयोरुपकर्णे गत्वोक्तम्-" वरं वरम् साधुकारवध्वो भूत्वा ईदृशमेवाऽत्यन्तापलपनं क्रियते चेत्तदा सत्यस्थितिः कुत्र ? । तं वराकं नयनविलासविभ्रमे पातयित्वा मनो वाक् कायादिसर्वस्वं लुण्टयित्वा स्वायत्तीकृत्य अधुना तत्सर्वमपलपनचातुर्यं किं दर्शयथः ?। 'शशकस्य चतुर्थः पादो न भवेद्' इति किं बालं ज्ञापयतः ? । मम तु सर्वं विदितमेव । प्रसूतिकारिकाग्रे जठरापलपनं कियच्चलति ? । यद्दिनतोः भवत्योर्दर्शनं संजातं तद्दिनतः स खान-पान-शयन- निद्रादिकं सर्वं For Personal & Private Use Only अष्टमः पल्लवः ॥ २७८ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy