________________
श्रीधन्य
चरित्रम्
॥ २७७ ॥
Jain Education in
भविष्यत्येव' । दूत्योक्तम्- 'महाराजेनोक्तं तत्तु सत्यं परं तत्र प्रवेशोऽतिदुष्करः । विचक्षणा वणिग्जातिः, सा वञ्चयितुमतिदुष्करा, परम् उद्यमे तु न किञ्चिन्नयूनतां करिष्यामि । इत्युक्त्वा दूतिका स्वगृहमागता । चिन्तयति च राज्ञोऽग्रे मया पणस्तु कृतः परन्तु निरुपलक्षिते गृहे केनोपायेन प्रवेशो भविष्यति ?' । इति चिन्तार्णवे पतिता दूती। दिनत्रये गते राज्ञः समीपमागत्य अन्तःपुर्याश्चतस्त्रः सख्यो मार्गिताः, पञ्चषाः पुरुषाश्च । तान् लात्वा स्वगृहमागत्य, एकस्मिन् महति भाजने विविधसुखभक्षिकापुञ्ज्ञैर्द्राक्षा-ऽक्षोटकबदाम-सितोपला-नालिकेरखण्डैश्च स्थालमापूर्य, अत्यद्भुतचीनांशुकेनाच्छाद्य, एकस्याः प्रवरतरुण्या हस्ते 'समुत्पाट्य स्वयं पुनर्महत्तरिका भूत्वा गीतानि गायन्ती, अग्रतः पृष्ठतश्च राजपुरुषैरावृता श्रेष्ठीगृहं प्राप्त यत्रान्तःपुरद्वारं तत्र गता । तत्रान्तःपुरद्वाररक्षकपुरुषैः पृष्टम् - - 'किमिदम् ?' । तदा सा दूती अग्रतो भूत्वा वक्तुं लग्ना--"ह्यो दिने राज्ञः कुलक्रमागतदेव्या महोत्सवो गतः, अद्य तस्या देवतायाः शेषा विभज्यन्ते, अतो राज्ञा महत्या प्रीत्या श्रेष्ठिनो गृहे विमुक्ताऽस्मि । उक्तं च राज्ञा-'श्रेष्ठिनोऽन्तःपुरं गत्वा श्रेष्ठिनीहस्ते दातव्यः, अतो वयं तं दातुमागताः स्मः" । यतो द्वारपालकैरुक्तम् 'श्रेष्ठिनो निर्देशं विना प्रवेष्टुं न दद्मः परं यूयं राजकीयास्तस्मात् श्रेष्ठिनमापृच्छ्य प्रवेष्टुं दद्मः, अतोऽत्रैव क्षणं स्थीयताम्' । इत्युक्त्वा एकेन सेवकेन श्रेष्ठिसमीपं गत्वा सर्वं निवेदितम् । तेनोक्तम् -'तासामग्रे कथय श्रीमद्राज्ञा महती कृपा कृता, परन्तु एकया मुख्यसख्याऽन्तःपुरे | गत्वा दातव्यम् । सत्कारस्तु सर्वासामेव कर्तव्यः, परमस्माकं कुलस्थितिरियमेव । इत्येवं श्रेष्ठिनोक्तं वाक्यं सेवकेनागत्य तस्यै कथितम् । 'भवतीनां मध्याद् एकैवाऽन्तःपुरे यातु इति श्रेष्ठयादेशः' । ततः सा दूती स्वयं स्थालं लात्वाऽन्तः पुरं गता दूरात्तयोः
१. समुत्पाटयित्वा । २. श्रेष्ठिगृहद्वारं प्राप्ता' इति प्र० ।
For Personal & Private Use Only
अष्टमः
पल्लवः
॥॥ २७७ ॥
www.jainelibrary.org