________________
श्रीधन्यचरित्रम्
॥२७६॥
इत्युक्त्वा दूती राज्ञः समीपान्निर्गता । नृपोक्तचतुष्पथे गत्वा इतस्ततः सर्वत्रावलोकनं कृतम् । पश्चात् तन्निवासिजनानां पृष्टम्-- 'कस्येयं वातायनावलिः?, कोऽत्र निवसति ? तैरुक्तम्--अस्य महावासस्य प्रमुखं तु प्रतीच्याम् अमुकपाटके वर्तते, तत्र तु
अष्टमः देशान्तरीया निवसन्ति। तत्रैको दाता भोक्ता परोपकारनिरतः श्रेष्ठी षण्मासादर्वाग् आगतोऽस्ति। किं वर्ण्यते तस्य सौजन्यम् ?।||
पल्लवः तस्य बहुतरः परिकरोऽस्ति, तन्मध्यात् तदाज्ञया कोऽपि स्थितो भविष्यति, परं विशदं न ज्ञायते । एतानि वातायनावलीनां द्वाराणि तु प्रायेण स्थगितान्येव लक्ष्यन्ते, कोऽपि कदापि नात्र तिष्ठति । इति श्रुत्वा दूतिक्का चिन्तयितुं लग्ना--'तादृशी शुद्धिस्तु न लब्धा, चेद् गृहमुख्यद्वारे गम्यते तदा विदितं भविष्यति' । इति ध्यात्वा पुनः परावृत्य शनैः शनैः शुद्धिं कुर्वती तद्गृहद्वारं गता। तत्र तु राजद्वारमिव घनैः पुरजनैः सेवकैश्च रुद्धं दृष्ट्वा प्रातिवेश्मिकेगृहे किञ्चिद् उपलक्षणं निष्काश्य तेन सह वार्ता कुर्वत्त्या पृष्टम्'भो ! अत्र महावासे को वसति ? | तेनोक्तम्-'दूरदेशान्तरादागतः श्रेष्ठी परिवसति, परं सर्वगुणैः सम्पन्नः श्रेष्ठिशिरोमणिः परोपकाररसिक ईदृशो न कोऽपि दृष्टिपथमागतोऽभूत् । पुनर्दूत्या पृष्टम्-'अस्यान्तः पुरमस्ति नवा?' | तेनोक्तम्-'अस्ति, परं न कमपि प्रवेष्टुं ददाति। अहं तु श्रेष्ठिनः, पार्श्वे शतशो यातः, परं नान्तः-पुरम्। तस्य देशस्येदृश्येव स्थितिः । महद्भिरुपलक्षणैर्महत्या च प्रीत्या स्त्रीजनः कदापि प्रवेशं प्राप्नोति, पुरुषस्तु नैव । अस्य श्रेष्ठिनोऽत्र निवसतः किञ्चिदधिकषण्मासा जाताः, परं मम जाययापि एक-द्विवारमेव प्रवेशः प्राप्तोऽस्ति' । एतत्सर्वव्यतिकरं प्राप्य दूतिकयापि राजानं गत्वा निवेदितम्-'स्वामिन् ! महाकष्टसाध्यं कार्यम्, तत्रापि कार्यभवने भजना ज्ञायते। भवदीयादेशो मया पणीकृतः, अतोऽहं यावद्भविष्यति तावत् करिष्यामि,
॥२७६॥ | पश्चात्तु भवदीयभाग्यबलम्!' ।राज्ञोक्तम्-'मदीयं भाग्यमस्त्येव, यतस्तयोः सरागदृष्ट्यनुमानेन ज्ञायते, अतस्त्वमुद्यमं कुरु,सफलो
Jan Education international
For Personal Private Use Only