________________
श्रीधन्य
अष्टमः
चरित्रम्
पल्लवः
॥२७५॥
अतिविषमा' । इत्यादिवचनरचनयाऽतिदुष्करं मिलनं पूर्णरागित्वं च दर्शयित्वा यथाऽऽतुरो भवति तथा कर्तव्यम् । पुनर्दूत्यग्रे वाच्यम्-'अस्माकमुपरि अवितथरागो भवति चेत् तदाऽस्मदुपायसङ्कटे पततु । अस्मदुक्तेदृशकष्टमङ्गीकरोति चेत्तदा कथमपि मिलनं भविष्यति, नान्यथा । त्वयापि यथावसरं प्राप्यागन्तव्यं, न बहुशः" । एवमभयेन सर्वं तयोः शिक्षापितं, ताभ्यां च तत्सर्वमवधारितम्।
तथा पुनर्द्वितीयदिनेऽपि राजा तस्यैव गवाक्षस्याभ्यर्णे भूत्वा निर्गतः । ताभ्यां पुनः कटाक्षादिपञ्चशरविशिखैर्विविधविधानविशदरीत्या विद्धो जर्जरीकृतः। 'सच विषमासु कामावस्थासु पतितो विचिन्तयति-' इमे सुररमण्यधिकतरस्वरूप-चातुर्ययुक्ते द्वे कथमपि हस्ते समायातश्चेत् तदा वरम् । एवं प्रतिक्षणमनुतापं (पेन) तप्यमानः प्रासादमागतः । चिन्तितं च--'चेत् कापि निपुणाऽवसरज्ञा वाक्कुशला दूतिका किमपि मिषं कृत्वाऽनयोरभ्यर्णे गच्छेत्, अनयोराशयश्च चलेत् तदा कथमपि मनोरथपूर्तिभवेत् । एवं विचिन्त्यैकां दूतीकर्मकुशलां दूतिकामाहूय तस्या अग्रे 'अमुकचतुष्पथे अमुक साधुकारवेश्मसमीपे महावासे उदयदिक्सम्मुखवातायने' इत्यादिसर्वमनु भूतम् इप्सितं च निवेदितम्। तस्मात् त्वं चातुर्येण किमपि मिषं कृत्वा, तद्गृहे गत्वा, तत्कुलादिकं ज्ञात्वा, तयोर्हद्गतप्रेमपरिमाणंच लात्वा एहि । दूति प्राह-'स्वामिन् ! इदं महद्विषमं कार्यमस्ति। यतोऽपरिचितसा धुकारस्य गृहे गमनमतिदुष्करं, तत्रापि तस्य गुह्यवार्ताग्रहणमतिदुष्करतरम् । ईदृग्महाविषमं कार्यं भवता निर्दिष्टं तथापि भवचरणकृपया स्वचातुर्यविस्फोरणेन च भवदादेशपरिमाणेन सर्वां तच्छुद्धिं लात्वा भवदग्रे निवेदयामि तदा मम प्रणामो ग्राह्यः' ।
१. 'दशापि (स्वपि) कामावस्थायां पतितो विचिन्तयति' इति प्र०।२. 'अनुतापं तष्यता चिंतित' इति प्र०।
॥२७५॥
For Personal Private Use Only
Jan Education intematon
rovw.jainelibrary.org