SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ २७४ ॥ Jain Education Interna परिवसत्यंत्र ?। केनोपायेनाऽनयोः संयोगो भवेत् ? । यद्यनयोर्मिलनं स्यात् तदा त्विदं जन्म सफलं नान्यथा । एवं सर्वं ध्यायन् | मिण्ठो भूसंज्ञया शिक्षितः - ' मन्दगत्या हस्तिखेटनं कुरु' । तेनापि तथा कृतम् । अग्रे गच्छन् वक्रीकृतग्रीवस्तत्संयोगचिन्तया विधुरोऽनिमेषदृष्टयावलोकते' । ताभ्यामपि तस्य तथावस्थां दृष्ट्वा विशेषतो विषलिप्तैर्मारमार्गणैर्मारित आलस्याङ्गमोटनजृम्भाकरण-परस्परालिङ्गनाद्यदृष्टपूर्वैः स्त्रीचरित्रविभ्रमैः पूर्णरागभावं ज्ञापयित्वा यदि मे ममोपरि पूर्णरागवत्यौ केनोपायेन मिलतः ?' इत्याशाशङ्कटे पातितः । ततस्तेन राज्ञा यावद् दृष्टिपथमायाते तावदवलोकनं कृतं, ततः परं प्राणान् तयोः पार्श्वे . मुक्त्वा एकेन देहमात्रेणाग्रतश्चलितः । ततस्ताभ्यां सर्वो व्यतिकरः श्रेष्ठिने निवेदितः । श्रेष्ठ्यपि प्रसन्नीभूत आयतिकर्तव्यतया एवं शिक्षा दातुं लग्नः-''कल्ये पुनः परस्त्रीलम्पटोऽत्रैवागमिष्यति, तदा पुनर्विशदरीत्या कटाक्ष- विक्षेप-हस्ताभिनयादिना आवर्ज्य | विह्वलो भवति तथा कर्तव्यम् । यतो विषयानुरक्तत्वेनैवं जानाति - 'इमे द्वे मामेव ध्यायतः, ममोपरि पूर्णरागे स्तः, यदाहं वक्ष्यामि तद्दिनेऽङ्गीकरिष्यत एव एवं प्रतीतिः कार्या । तथा च द्वि-त्रिदिवसैः पूर्णविह्वलो भविष्यति तदा कथञ्चिन्मिषं कृत्वा दूतिकां प्रेषयिष्यति । तदा दूतिकोक्तं श्रुत्वा प्रथमं मिष्टवचनैस्तर्पयित्वा यथायोग्यं किमपि खानपानादिना आवर्ज्य तद्गृहशुद्धिर्विशदरीत्या ग्राह्याः ततः परं कथमपि वाक्यचातुर्येण 'सङ्गमोऽतिदुर्लभतरः प्रति भासते' तादृशं वक्तव्यम् । 'यतोऽस्माकम् आजन्मतोऽद्य | यावद् न केनापि सह चतुरक्षिमिलनं जातं, विना भर्तारं न कस्याप्यग्रे वाग्विलासः कृतः । न ज्ञायते केन पूर्वकृतकर्मसम्बन्धेन राज्ञा सह प्रेमोदयो जातः ? । परं भगिनि ! तस्य मिलनं तु अतिदुष्करं कथं निर्वक्ष्यति ? । अस्माकं गृहनिवासस्थिती राज्ञोऽन्तःपुराद् १. वलौकयन् गच्छति । For Personal & Private Use Only अष्टमः पल्लवः || २७४ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy