SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ २७३ ॥ Jain Education Inter I | तद्दर्शनार्थमुत्तिष्ठति । ईहग्जनपरिचितेन श्रेष्ठिना गृहस्थितयोर्द्वयोः पण्याङ्गनयोरेवं शिक्षा दत्ता -" कल्ये राज्ञोऽश्ववारिका निर्गमिष्यति । तस्मात् पूर्वं 'वस्त्राभूषणपरिधानाद्यद्भुतरचनया षोडशश्रृङ्गारान् कृत्वा ताम्बूलेन मुखं भूषयित्वा गवाक्षे प्रवरभद्रासने स्थातव्यम् यदा हस्तिस्कन्धाधिरुढो नृपो दृष्टिपथमायाति तदा कटाक्षबाणैः सुतरां वेध्यः । हाव-भाव-विभ्रमैः पातयितव्यो यथा कुसुमायुधोऽङ्गप्रत्यङ्गं व्याप्नोति तथा कर्तव्यं यथा स युवामेव ध्यायति, युवामेव पश्यति । किं बहुना ? स्वकलास्फोरणेन गमनागमनसमये स्वचरित्रविलासेन वशीकर्तव्यः " एवं शिक्षयित्वा ते रक्षिते । ततो द्वितीयदिने राज्ञोऽश्ववारिकावसरे ते द्वे अपि स्नान- मज्जनादिपूर्वकं षोडश श्रृङ्गारान् कृत्वा पञ्चसौगन्धिकेन च ताम्बूलेन मुखं भूषयित्वाऽग्रतो राजमार्गगवाक्षे भव्यभद्रासने स्थिते । ततो घटिकाद्वयानन्तरं राजा तस्मिन् मार्गे निर्गतः । गन्धहस्तिस्कन्धाधिरुढो यावता गवाक्षसमीपमागतस्तावता ते द्वे अपि दृष्टिपथमागते । ताभ्यामपि हावभावपूर्वकं राजाऽवलोकितः, तदा परस्त्रीलम्पटो राजापि चमत्कृतः सादरमवलोकनं कर्तुं | लग्नः । मनसि च विचारयितुं प्रवृत्तः - 'स्वरूपतर्जितरम्भे कन्दर्पकटकभभ्भे च कस्य भाग्यवत इमे तरुण्यौ ?' । इति ध्यायन् पुनः | पुनः पश्यन; गच्छति । ततस्ताभ्यां राज्ञः सरागदृष्टिं ज्ञात्वा विशेषतः सादरम् अनिमेषाऽवलोकनम् अर्धोन्मीलितचक्षुषाऽवलोकनं | मुखमोटनं सस्मितावलोकन न्यग्भूया वलोकनो- वभूयावलोकनं कपाटाऽन्तरास्थगनं च कृत्वा पुनः पुनः प्रकटीभवनाय परस्परं | बाहुभ्यां कण्ठपार्श्वकरणाद्यपरिमितहाव-भाव-विभ्रम-कटाक्ष-विक्षेपादिस्त्रीचरित्रसङ्कटे पातितः कामबाणप्रहारैर्जर्जरीकृतः । राजा चिन्तयति- 'किमिमे नागवध्वौ ?, वा किन्नर्याविमे ? वा विद्याधर्याविमे ?, के वा भविष्यतः ? । कस्येदं धवलोन्नतं गृहम् ? । कः १. ' षोडशशं गारादिवस्त्राभूषणपरिधानादि अद्भूतरचनां कृत्वा' इति प्रत्यन्तरे । For Personal & Private Use Only अष्टमः पल्लवः | ॥ २७३ ॥ w.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy