________________
श्रीधन्य
चरित्रम् |
अष्टमः पल्लवः
॥ २७२॥
न चलति, तदा स्वगृहात् सेवकैः खट्वा आनायिता । ततो गृहीत्वा खट्वायां संस्थाप्य बन्धनैश्च बद्ध्वा सेवकाः खट्वामुत्पाट्य गृहमानेतुं लग्नास्तदा खट्वायां स्थितः पूर्वशिक्षितं यत् तत् प्रजल्पति। तद्दृष्ट्वा लोका वदन्ति-' अहो ! ईदृशगुणवतः श्रेष्ठिनोऽपि महदुःखं दृश्यते। असारे संसारे कोऽपि पूर्णसुखेन सुखितो न भवति । कस्य किमपि दुःखं भवत्येव' । ईदृशेन कैतवेन गृहे नीतः। जना विसर्जिताः । सर्वेऽपि श्रेष्ठिनश्चिन्तां कुर्वन्तो गृहं गताः । एवम् एकदिनान्तरे कदापि दिनद्वयान्तरे करोति , पुनः श्रेष्ठी पूर्ववत् क्रियां कृत्वा गृहे नयति, एवं प्रतिदिनं कुर्वन् प्रतिचतुष्पथं प्रतित्रिकं प्रतिचतुष्कं प्रतिपाटकं यावत् प्रतिगृहं प्रतिगोपुरं प्रत्युपवनं प्रतिवाटिकं सर्वत्र विदितो जातः । यत्र यत्र गच्छति तत्र तत्र लोकास्तं दृष्ट्वा परस्परं कर्मणां निन्दापूर्वकं श्रेष्ठिनः स्तुतिं कुर्वन्ति"अहो ! विचित्रा कर्मणां गतिः ! ईदृशः सर्वत्र सर्वरीत्या सुखितोऽपि श्रेष्ठी यदुःखमनुभवति तदुःखं शत्रोरपि माऽस्तु । धनधान्यादिसर्वसुखैः पूर्णोऽपि भ्रातृदुःखेन पिडितो न गणयति रात्रिं, न गणयति दिवसं, न गणयति आतपं, न गणयति शीतं, न च गणयति खानपान-स्वपनादिसुखम् । भ्रातृ दुःखेनदुःखित एकाक्येव सामान्यजनवत् प्रत्यटव्यां परिभ्रमति। सेवकाः कुत्रचित्, स्वयं कुत्रचिद्दासजनाः कुत्रचिद्ग्रहगृहीता इव परिभ्राम्यन्ति। दैवीं गतिं स्फोटयितुंन कोऽपि समर्थः । एवं सर्वत्र विख्यातिर्जाता। पूर्व तु यदा निर्गतोऽभूत्, श्रेष्ठी च तच्छुद्ध्यर्थं पृष्ठतो धावितोऽभूत् तदा शतसहस्रमाना जना गृहानयनं यावत् पृष्ठतो लग्ना आगता अभूवन् । पश्चात्तु बहुदिनेषु जातेषु न केऽप्यागच्छन्ति, गृहस्थिता एव श्रेष्ठिनो दुःखस्य तप्तिं कुर्वन्ति । यदि कोऽपि अविदितवार्तः किमिदम्?, इति पृच्छति तदा पुरजना उत्तरं ददाति-'भ्रातः ! कर्मणां गतिरीदृशी । पश्चात् श्रेष्ठिगुणवर्णनपूर्वकं सर्वव्यतिकरं ज्ञापयन्ति । अत्र किमाश्चर्यम् ?, नित्यमीदृशीं कर्मगतिमनुभवति श्रेष्ठी' । श्रेष्ठी रोगी च प्रवाहपतितत्वान्न कोऽपि
||२७२॥
For Personal Private Use Only
in Education in
www.jainelibrary.org