________________
श्रीधन्य
चरित्रम्
॥ २७१ ॥
वाक्कायैः प्रगुणाः स्मः, नात्र सन्देहः । ईदृशो दुर्जनः कोऽस्ति यो भवदुक्तकार्यकरणाय प्रमाद्येत् ? । भवादृशानां जगदुत्तमानां ग्रीष्मर्तुमध्याह्नकाले ईदृक्कष्टकरणं तु न युक्तम्, अतोऽतिशीतलच्छायम् अस्माकं हट्टमलङ्क्रियाताम् । पूज्यपादानामागमनेन हट्टमपि पावनं भविष्यति । तत्र स्थित्वा कार्यं समादिश्यतां, शिरोबलेन तत्कार्यं क्षणार्द्धेन करिष्यामः । एवं गुणैर्वशीभूतानां | जनानां भाषितं श्रुत्वा साश्रुलोचनः श्रेष्ठी सगद्गदमिति प्रतिवदति-'भो भ्रातरः सज्जना ! यद्भवद्भिरुक्तं तत्सत्यम् । त्रिधा सर्वेऽपि मम शुभचिन्तकाः, मदुक्तकार्यकरणतत्पराः । सर्वेऽपि ममोपरि पूर्णकृपां रक्षन्ति । परन्तु ममैकं महद्दैवमापतितमस्ति, तेन दुःखेन प्रेरितो मध्याह्ने धावन्नागतः, न तु धनाय लोभाय च । जनैरुक्तम्- 'किमीदृशं दैवम् ? । श्रेष्ठिनोक्तम्- 'द्वित्रिमासेभ्योऽस्माकं प्राणप्रियस्य समस्तगृहचिन्ताकारकस्य परमविनयगुणयुक्तस्य सर्वकार्येवतिनिपुणस्य गृहमण्डनभूतस्य प्रद्योतनाम्नो मम लघुभ्रातः | केनापि रोगेण वायुप्रयोगेण भूतादिदुष्टदेवप्रयोगेण वा प्रकृतिर्विकृतिर्जाताऽस्ति । तेन न सरलं जल्पति, न च सरलं भोजनं करोति । अहर्निशम् अस्य पार्श्व न मुञ्चामः । कदापि क्षणमपि कस्मैचित् कार्याय इतस्ततो गच्छन्ति सेवकादयस्तदाऽयं वञ्चयित्वा बहिर्निःसृत्य इतस्ततो धावति, ग्रथिलवज्जल्पति, वल्गति च । नित्यं तु गृहपाटके परिभ्रमति, ततो गृहीत्वा गृहे नीत्वा यत्नेन रक्षामि । अद्य नंष्ट्वा क्वचिद् गतः, शुद्धिर्न लब्धा । तेन दुःखेन आतपेऽपि निःसृतोऽस्मि, नान्यत् किमपि प्रयोजनम्' । तदा केनाप्युक्तम्'अमुकचतुष्पथे भवदुक्तस्तादृशः परिभ्रमति, ग्रथिलत्वं च करोति । 'अहं प्रद्योतो राजा नगरस्वामी, एते मम सेवका' इत्यादि प्रजल्पति । लोकवृन्दानि पृष्ठे भ्राम्यन्ति, विकलत्वं च कारयन्ति । सोऽपि लोकानां धूल्याच्छोटनं करोति । एवं तद्गिरं श्रुत्वा अश्रुपातं कुर्वन् लोकैः सह तत्र गतः । श्रेष्टिसेवकैर्जनैश्च मिलित्वा गृहीतः पुनः क्षणेन अवसरं प्राप्य नष्टः, पुरस्तैर्गृहीतः, परम् अग्रे
"
Jain Education International
For Personal & Private Use Only
अष्टमः
पल्लव:
॥ २७१ ॥
www.jainelibrary.org