________________
श्रीधन्य
चरित्रम्
अष्टमः पल्लवः
॥२७०॥
चतुर्घटिकायां जातायां हस्ते आगन्तव्यम्। हस्तागमनानन्तरं पुनर्जष्ट्वा गन्तव्यम्। लोकानामग्रे वक्तव्यम्-'अहं प्रद्योतो नराधिपः, मम ग्रहणाय अभय आगच्छति तं वारयन्तु। इत्युक्त्वा धूल्याधुत्थापनं कर्तव्यम् । पश्चादहं त्वां बलाद् गृहीत्वा खटूवायां बध्वा गृहे नेष्यामि तदा त्वया येषां तेषां लोकानां सुभटानां च पुरत एवं वक्तव्यम्-'भो भो लोका ! भोः सुभटा ! मां प्रद्योतराजं बध्ध्वाऽतो गृहीत्वा च अभयो याति, अतो यूयं किं न मोचयथ?' । इत्येवं खट्वाया स्थितेन पुनः पुनः प्रलपनं कर्तव्यम् । अन्तराऽन्तरा किमपि यद्वा तद्वा प्रलपनमपि कृत्वा पुनरहं प्रद्योतनराधिप इत्यादि जल्पनं कर्तव्यम् । एवं प्रत्यहं क्रिया कर्तव्या। नित्यं खटूवायां बध्ध्वा गृहे नेष्यामि । पश्चाद् गृहमध्ये आगत्य सुखेन स्थेयं, यथेच्छया भोजनादिकं कर्तव्यम्" इति शिक्षयित्वा रक्षितः।।
प्रभाते संजाते स तथा कर्तुं गृहाद् नष्ट्वा चतुष्पथ भ्राम्यति, पूर्वशिक्षितं च वक्ति । लोको ग्रथिलक्रियां दृष्ट्वा हास्यं करोति। 1 शतसहस्रमितानि जन-बालवृन्दानि पृष्ठे लग्नानि परिभ्राम्यन्ति। यदि कोऽपि पृच्छति कस्त्वम् ?' तदा वक्ति-'अहं प्रद्योतनामा
नराधिपः, समस्त्तदेश-ग्राम-नगराणामहमधिपः, एते सर्वेऽपि मम सेवकाः' ! इत्येवं यत्तत् प्रलपति । लोकैर्निर्धारितम्-'नूनं वातुलोऽयम्, हृत्कमले प्राणाभिधानवायुविकृतिर्जाता दृश्यते, तेनायं विकलात्मा यत्तत् प्रलपति' । एवं त्रि-चतुष्पञ्चघटिकानन्तरं श्रेष्ठी सेवकैः सह पादविहारेण धावन् चतुष्पथे समागतः । निजनिजहृट्टस्थिता लोकास्तादृशं दृष्ट्वा विस्मितमनसः साशकं समुत्थाय श्रेष्ठीसमीपं गत्वा नत्वा च विज्ञप्तिं कर्तुं लग्नाः-स्वामिन ! भवादृशानां महेभ्यवराणाम् आतपसमये पादविहारेण किमागमनप्रयोजनम् ? । किमपि त्वरितप्रयोजनं भवति चेद् एते सेवका आदिश्यन्ताम् । तेषां वक्तुमयोग्यंचेद् अस्माकं + समादिश्यताम् । एते सर्वेऽपि नगरवासिनो जना भवदीयगुणैः क्रीता दासाः स्मः । भवदीयादेशमात्रेण भवदुक्तकार्यकरणाय मनो
॥२७॥
For Personal & Private Use Only
Jain Education intomational
Alww.jainelibrary.org