________________
श्रीधन्य
अष्टमः
चरित्रम्
पल्लवः
॥२६९॥
चण्डप्रतापो नाम्ना चण्डप्रद्योतो वासव इव राज्यम् अतिशुभनीत्या करोति । तस्यां पुर्यां कस्यापि कर्मोदयेन रोगादिकं | विनाऽन्योपद्रवस्य नामापि न ज्ञायते । यदि वा आश्चर्यं द्रष्टुकामाश्चेत् तदा उज्जयिन्यां गन्तव्यम्, यस्या दर्शनेन पुरा दृष्टानि सर्वाणि माणिक्याने काचवद् भास्यन्ति' । इति तदुक्तं श्रुत्वा अन्यदेशं गन्तुकामा अपि अत्रागता वयम् । परं यादृशं कर्णे : श्रुतं तादृशमेव दृष्टम् । अत्युग्रपुण्यवतां न्यायैकदृष्टीनां भवतां दर्शनं संजातम् । पावनीभूते अद्याक्षिणी । पुण्यवता दर्शनं महते गुणाय भवति । इत्युक्त्वा विरते श्रेष्ठिनि प्रद्योतः स्वप्रशंसया प्रस्फुलितः । 'भोः श्रेष्ठिन् ! भवादृशानामागमने वयं प्रसन्नाः स्मः । सुखेनात्र स्थातव्यम् , यथेच्छया व्यापारः कर्तव्यः । युष्माकं कार्यं चेद् भवेत् तदा सुखेनात्रागत्य निवेदनीयम्' । इत्युक्त्वा प्रवरवस्त्राणि बीटकानि च दत्त्वा शुल्काधिकारिणामादिष्टम्-'अस्य श्रेष्ठिनोऽध शुल्कं ग्राह्यम्, नाधिकम्' इत्युक्त्वा विसृष्टः । अभयेनापि राजमार्गे अनेकगवाक्ष-द्वारपुतं नातिव्यक्तं नातिगुप्तम् ईदृशं रम्यं गृहं राजामंदिरसदृशं भाटकेन गृहीत्वा तत्र निवासः कृतः । 'अभयचन्द्रश्रेष्ठी' इति नाम प्रख्यापितम्। 'एकं महास्थानं, तत्र स्थितो वाणिज्यं करोति । निजचातुर्यवार्तया पुरजनान् रञ्जयति। गृहे गृहे जनास्तस्य गुणवर्णनं कुर्वन्ति-'कोऽपि अदृष्टपूर्वोऽयं सज्जनशिरोमणिः श्रेष्ठी आगतः, धन्यास्ते देशा यत्रेदृशाः सज्जनाः परि वसन्ति' । गृहमध्यद्वारे द्वारपालका नित्यं तिष्ठन्ति, न कस्यापि मध्ये प्रवेष्टुं ददति । कथयन्ति यद्-अस्माकं देशे कुले चेदृशी स्थितिः' । अथ प्रद्योतानुकारिपुरुषः शिक्षापितः-"त्वमद्य नंष्ट्वा चतुष्पथादौ गच्छ। मार्गे यद्वा तद्वा प्रलपनं कुरु, ग्रथिलक्रियां कुर्वन् इतस्ततः परिभ्रम । पश्चादहं तव ग्रहणार्थमागमिष्यामि तदा त्वया वेगेन नंष्ट्वा दूरतो धावनं कर्तव्यम्। द्वि-त्रि
१. भान्ति प्र०।२. प्रस्फुलीभूतः प्र०।३. भविष्यति प्र०।४. विसर्जितः प्र०। ५ एका महत्यासथानसभा।
॥२६९॥
For Personal Private Use Only
www.ainelibrary.org