________________
श्रीधन्य
चरित्रम्
॥ २६७॥
महार्तिकृत् भवति । एवं महामात्यः 'श्री देन ईश्वर इव धन्येन प्रीतिसौख्यमनुभवति, षड्विधं च प्रीतिलक्षणं पूर्णमावहति । एकजीवस्य रूपद्वयमिव तौ सुखेन कालं निर्गमयतः ।
अथैकदा पाश्चात्यरात्रिसमये शय्यायां सुप्तेन अभयेन चिन्तितम् -'अहो ! मया उज्जयिनीतो निर्गच्छता प्रद्योताग्रे पणं | कृतम् । अद्यापि प्रतिज्ञा न पूरिता । उक्तवाक्यस्य प्रतिपालनैव पुरुषत्वम्, अतस्तत्प्रतिपालनोद्यमोऽधुना अवश्यं कर्तव्यः' । प्रभाते संजाते राज्ञे धन्याय च तत्सर्वं निवेद्य सामग्रीं कर्तुं लग्नः । प्रथमे द्वे वेश्ये जातीयवरतरुण्यौ वयसा षोडशवर्षप्रमाणे, पुरुषरञ्जनकलासु अतीव निपुण, भ्रू- नेत्रा -ऽऽस्यादीनां हाव-भाव-विभ्रम- कटाक्षाकर्षणकलायां सुररमणीनां जित्वर्यौ, रूपयौवनभृते, कोकिलकण्ठ्यौ तरुण्यौ संगृहीते। तथैको मुखनेत्रादिविलासैः प्रद्योतानुकारी पुरुषः सार्द्धं गृहीतः । तस्य प्रचुरं धनं दत्त्वा यदग्र करणीयं तत्सर्वं प्रच्छन्नवृत्त्या शिक्षाप्रितं, ततश्च तद्देशक्रयविक्रयाहीनि ऋयाणकानि वरवस्त्राणि विविधनिच रत्नानि गृहितानि । गृहीत्वा च अनेकशकटो-ष्ट्र-बलिवर्दादिषु यथायोग्यं भृतानि । तथा दूरदेशान्तरभाषाकुशलानां तादृग्वेष- नेपथ्यानी कारितानि । आत्मनापि तथा वेषो धृतः । एवं सर्वां सामग्रीं कृत्वा राज्यकृत्यं धन्यमस्तके दत्त्वा स्वयं च राजानमापृच्छ्य, भव्यदिवसे शुभमुहूर्त्ते भव्यशकुनैरुत्साहितेन राजगृहाद मालवदेशोन्मुखं प्रयाणं कृतम् । तत्र द्वे वरतरण्यौ वस्त्रावृते रथे स्थापिते । कियन्तः सुभटा अग्रतः पृष्ठतश्च चलन्ति । बह्रयश्चेटिकास्तस्य रथस्य परिचर्यायां मुक्ताः । यदा कोऽपि पृच्छति तदा रथिकाः सुभटा वदन्ति'अन्तःपुरम् ' । एकस्यां दोलायां प्रद्योतानुकारी पुरुषः शिक्षितानुकूलं यद्वा तद्वा वक्ति । स्वयं भव्याश्वरथे
१. कुबेरेण ।
Jain Education Intemational
For Personal & Private Use Only
अष्टमः
पल्लवः
॥ २६७॥
www.jainelibrary.org