SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ २६६॥ Jain Education Inte भवानस्माकमुभयतः पूज्यः, लौकिकेन लोकोत्तरेण च । कथम् ? - यद् त्वं लौकिकसम्बन्धेन भावुकोऽसि, तथा लोकोत्तरेण श्रीजिनाज्ञयाऽलङ्कृतोऽसि । जगज्जानानाम् अस्माकं चोपकारकारी असि । अतो भावुक ! तव दर्शनं कृत्वा कृतकृत्योऽस्मि । ये जिनाज्ञायां धृतप्रतिबंन्धा दृढभक्तिकास्ते तु शिवार्थिनां पूज्यतमा ज्ञेयाः । लौकिकसबन्धेन यः स्नेहः स संसारस्यैव वृद्धिहेतुः । यः पुनर्लोकोत्तरसम्बन्धेन स्नेहः स मुक्तेरेव हेतुः, 'बोधिनैर्मल्यहेतुश्च । अतो यूयमस्माकम् उभयतः पूज्यतमाः । किञ्च, ह्यस्तातपादैर्भवदागमनेन शुष्कवननवपल्लव- धूर्तदमन- गजदमन- राज्य स्थितिस्थिरीकरणादिः, तथाऽनेकशः कृतघ्ननिर्भाग्यबन्धूनाम् अमितसमृद्धिं दत्त्वाऽपसरणादिर्व्यतिकरः सहर्षं कथितः । तच्छ्रुत्वा मम हृदयं तु विस्मय-पुलक-प्रमोदहर्ष - स्नेहेन अतीव निभृतमभूत्, अधुना यावद् उल्लासो हृदि न माति वयं तु सुरद्रुम-कामगवी - चिन्तामणि- चित्रवल्लिमिलनादधिकं भवदीयसङ्गमं मन्यामहे । अत इयं राज्यर्द्धिः समृद्धिरहं च स्वकीया एव गण्याः, नात्र सन्देहः कर्तव्यः' इति मन्त्रिगिरं श्रुत्वा धन्य आह-‘मन्त्रिराज ! भवादृशाः सज्जनाः प्राप्तगुणा कृपार्द्रहृदयाः कृतज्ञाः परगुणपरमाणुं पर्वतकरणशीला एव भवन्ति । गुणलेशेऽपि | कृते सज्जनास्तस्य महत्त्वमारोपयन्ति । परन्तु अहं कियन्मात्रः ?, निगममात्रोऽहम् ; मत्तः किं भवति ? । अगण्यपुण्याढ्यानां भवतां पुण्येन सर्वं भवति । सेवको यो जयमाप्नोति तत् स्वामिनां पुण्यं ज्ञेयम्' । इत्येवं परस्परप्रशंसनमन्त्रेण परस्परहृदयावर्जनकार्मणेन च गाढतररागानुबन्धी प्रेमसम्बन्धः संजातः । तद्दिनात् प्रतिदिनमिलनं जिनयात्रादिगमनं राजसभाऽलङ्करणं वनोपवनादिप्रेक्षणं च अवश्यमुभाभ्यामेव कर्तव्यम् । केनापि कार्यवैयग्रयेण यद्दिने मिलनं न भवति तद्दिनं १. सम्यक्त्वपावित्र्यकारणं । २. वाणिग्मात्रः । For Personal & Private Use Only अष्टमः पल्लवः ॥॥ २६६ ॥ w.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy