SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ २६५॥ Jain Education Inte धूर्त कृतकपटकुयुक्तिकारायां पतित आत्मीयपटुप्रतिभाशालिन्या बुद्धया मोचितः । तथा खल्वनेन आलानमुन्मूल्य निर्गतं मम सिञ्चानककरिवरं मदोत्कटत्वेन नगरं ध्वंसमानं गजदमनशिक्षाकुशलत्वेन स्वायतीकृत्य आलाने बद्ध्वा सर्वजनानामुपकारः कृतः । गुणनिधेरस्य कियतां गुणानां वर्णनं करोमि ?, रूप-सौभाग्य- विज्ञान-विनयचातुर्याद्यनेकगुणानामाकरोऽयमेवास्ति । तथा निष्कारणोपकारं नैमित्तिकवचनं च श्रुत्वा कुसुमश्रेष्ठिना, धूर्तवचनकारागारमोचनं स्मरता गोभद्रेण, तथाऽनेकोपकारगुणस्मरता मयाऽपि च प्रीतिवल्लिवृद्ध्यर्थं पुत्री दत्ता । भो वत्स ! अस्य गुणांस्त्वं तदा ज्ञास्यसि यदाऽनेन सार्द्धं संवासपरिचयो भविष्यति' । इत्येयं पितुर्मुखाद् धन्यगुणश्लाघां श्रुत्वा गुणानुरागिणां धुर्योऽभयस्ततः प्रभृति प्रमोदेन गुणहेतोर्धन्यस्योपरि गाढानुरागी जातः । अथ द्वितीयदिनेsभयः स्वयम् अत्युग्रं प्रेम दधानो भावुकसम्बन्धत्वाद् धन्यगृहं गतः । धन्योऽपि अभयागमनं श्रुत्वा सहसा समुत्थाय कियतीं भूमिं सम्मुखमागतः । अभयो वाहनादुत्तीर्णः । गाढालिङ्गनपूर्वकं द्वाभयां सहर्षं जोत्कारप्रणमनं कृतम् । ततो गृहप्रवेशनार्थं 'चलताऽग्रतो यूयं यूयम्, इति शिष्टाचार- बहुमानपूर्वकं गृहे नीत्वा भव्यासने स्थापयित्वा इति वक्तुं लग्नः-'अद्य | सेवकोपरि महती कृपा कृता । अद्यास्माकं ग्रहेऽनभ्रवृष्टिः संजाता । प्रमादवतो गृहे गङ्गा स्वयमेवागता । पवित्रीकृतं मम गृहं निजागमनेन । धन्योऽद्य मम दिवसो यद् भवत्पादानां दर्शनं जातम् परं भवता इयान् श्रमः किमर्थं कृतः ? अहं तु तव सेवकोऽस्मि. | निर्देशकारी अस्मि भवता निर्देशमात्रः कृपोऽभविष्यत् तदाऽहं भवतामादेशं शिरसि धृत्वा भवच्चरणाग्रे किं नागतोऽभविष्यम्!'। इत्येवं विज्ञप्तिं श्रुत्वाऽभयो धन्यस्य हस्तमाकृष्य समासने निवेश्येति वक्तुं लग्नः - 'भो इभ्यवर श्रेष्ठिन् ! एवं मा वद । यद् For Personal & Private Use Only अष्टमः पल्लवः ॥२६५॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy