________________
श्रीधन्य
चरित्रम्
॥ २६४ ॥
Jain Education Inter
अथैकदा अभयेन पितरं प्रति पृष्टम् -'तात ! तवात्र राज्यनिर्वहणं सुखेन संजातम् ?, कापि चिन्तार्तिंस्तु न जाता ?' । राज्ञोक्तम्- 'वत्स ! त्वयि गते राज्यध्वंसनप्रबला उत्पाता उत्थिताः, परन्तु असमानधीनिधिना एकेन सज्जनपुरुषेण धन्येन | बुद्धिबलेन पराजिताः, राज्यं च दीप्तिमत्' । अभयेनोक्तम्- ' कतमो धन्यो यो भवता प्रशस्यते ?' | राजाह'यस्त्वदागमनदिवसे तव पार्श्वे स्थितः प्राभृतकरणसमये च मया भूसंज्ञया यस्योपायनग्रहणं निषिद्धम् । यतोऽस्य गुणानुरागरञ्जितेन मया पुत्रिका दत्ताऽस्ति, अतो जामातृत्वाद् दातुं योग्यो, न ग्रहीतुम्' । अभयेनोक्तम् के के गुणाः सन्त्यस्मिन् ?' । राज्ञोक्तम्-वत्स ! अयं सतां मान्यो धन्य औत्पत्तिक्या धिया तु तव तुल्यकक्षतामवगाहते। सौजन्यगुणेन अद्वितीयो जगति, यतोऽनेन खलु विश्वे 'विश्वेषामपि भूभिभृताम् 'अशुभिरिन्दुनेव बुद्धिगुणैरुपकृतिः कृपा । पुनस्तेजस्विनां प्रधानेन अनेन खलु मम प्राज्यं राज्यं निधानेन भूतलमिव अधिकतरं बभौ । भाग्यलक्ष्मीसखेन अनेन खलु ताः सर्वा अि राजधान्यः सर्वाऽवसरसावधानत्वेन मुखेन वपुः श्रिय इव अलङ्कृताः । तथा अनेन खलु धन्येन स्वगृहाद् निर्गत्य विदेशेऽपि | स्वदेशवत् कस्यापि श्रेयसः पाकाद् अद्भुतभोगसुखश्रियो भुक्ताः । तथा पुनरनेन खलु स्वभाग्याप्ताऽपरिमितधनेन अकृतज्ञा अपि विगलद्धनाः स्वभ्रातरोऽनेकशः सविनयं सहर्षं प्रौढिमापिताः । तथा खल्वनेन अत्रागतेन श्रेष्ठिनः शुष्काऽपि वाटिका दृष्टिप्रसरमात्रेण अभिनवपल्लव- पुष्प-फलादिशोभया शोभनीकृता । तथा पुनरनेन त्वयि अवन्तिनगरे गते रवौ प्रोषिते विधुना द्यौरिव मम राज्यस्थितिद्यतिता । तथा पुनरनेन समस्तव्यवहारिशिरोमणिभद्रनामा श्रेष्टी
१. सर्वेषाम् । २. नृपाणाम् (पक्षे) पर्वतानाम् । ३. किरणैः ।
For Personal & Private Use Only
अष्टमः
पल्लवः
॥ २६४ ॥
jainelibrary.org