SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य अष्टमः चरित्रम् पल्लवः ॥२६३॥ सम्मुखमागतः पितुरागमनं दृष्ट्वाऽभयोऽपि वाहनादुत्तीर्य पादविहारेणागत्य तातपादयोर्निपतितः। पित्राऽपि स्वहस्ताभ्यामुत्पाट्य, गाढस्नेहेन गाढालिङ्गनपूर्वकं मस्तकं चुम्बित्वा, हर्षाश्रुजलप्लावितलोचनेन दृष्ट्वा, सगद्गदं कुशलक्षेमवार्तामात्रं च कृत्वा हस्तिस्कन्धे आरोग्य, धवलमङ्गलाद्यने-कमङ्गलक्रियाप्रवर्तनपूर्वकं पुरप्रवेशः कारितः । अभयागमनेन मगधाधिपः १ पीयूषमयूखाऽभ्युदये २ क्षीरोद इव प्रमोद-भरनिर्भरो जातः । तदा पुरजन-महाजन-स्वजनादीनां गमनागमनेन विशालोऽपि राजद्वारमार्गः सङ्कीर्णो जातः। राजवर्गीयजनानां च उपायनानि लात्वा तांश्च सुखक्षेमवार्तालापनपूर्वकं हर्षबीटकानिदत्त्वा विसर्जनं करोति। एवं यो यथागतस्तं तथाविधं सुखप्रश्नादिकमापृच्छय विसृजति । अथ धन्योऽपि राज्ञा सह सम्मुखमागतोऽस्ति, राज्ञा च समासने निवेशितोऽस्ति । क्रमेणावसरं प्राप्य धन्योऽपि बहुतरमुपायनं कर्तुं लग्नः, तदा राज्ञा भूसंज्ञया तद्ग्रहणं निषिद्धम् । अभयेन तद् ज्ञात्वा धनशपथादिमहाग्रहेण किञ्चिद् वचनरक्षणमात्रं गृहीतम्। चिन्तितं च-'अयं कोऽपि अभिनवः सज्जनपुरुषो दृश्यते । राजापि स्नेहेन बहुमानेन चालापयति । यथावसरे ज्ञास्यामि, परं गुणनिधिस्तु प्रतिभासते' अथ सर्वेऽषि शिष्टाचारपूर्वकं प्रसन्नीकृत्य विसर्जिताः, ततः परं स्वकीयगृहगतसेवकादयश्चालाप्य विसर्जिताः । अथ भोजनावसरे जाते सभ्यान विसj राजा भोजनायोत्थितः । अभयेन सह भोजनं कृत्वा, रहसि स्थित्वा, कपटश्राद्धी कपटेन गृहीत्वा गता' ततः प्रभृति यज्जातं यचाऽनुभूतं तद् आगमनपर्यन्तं राज्ञा पृष्टम् । अभयेन तत् तद् रथस्थापनादि सर्वं राज्ञोऽग्रे निवेदितम् । राजापि तच्छुत्वा शिरोधूनयन् विस्मितचित्तो वक्तुं लग्नः-'वत्स ! ईदृशात् सङ्कटात् त्वमेव निःसरेः, नान्यः । वर्तमाने तुबुद्ध्या जगति त्वमेव अद्वितीयो दृश्यसे। एवं समग्रवार्ताकथने कियन्त्यपि वासराणि व्यतीतानि । १.चन्द्रोदये। २. समुद्रः। ॥ २६३ Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy