________________
श्रीधन्यचरित्रम्
अष्टमः
पल्लवः
॥२६२॥
अभयेनोक्तम्-'अधुना तु गृहगमनरुचिः प्रवर्तते' । प्रद्योतेनोक्तम्-'एवमप्यस्तु' । इत्युक्त्वा भव्याभरण-वस्त्रादिदानपूर्वकं शिष्टाचारं कृत्वा विसर्जनं कृतम्। अभयोऽपि मातृष्वसृप्रभृतीनां शिक्षा लात्वा राजगृहगमनसमये पुनः प्रद्योतं नत्वेति वक्तुं लग्नः"महाराज! भवता कपटधर्मच्छलेनाहम् अत्रानायितस्तन्न विस्मृतं मया, तस्मादधिकं वालयिष्यामि, परन्तु धर्मच्छलं बिना, न प्रच्छन्नचौरवृत्त्या, किन्तु मध्याह्लादर्वाक् समस्तभवदीयराजकीयजनेषु पश्यत्सु सकलनगरजनेषु च पश्यत्सु । भवांश्च स्वकीयसामन्त-सुभटानां नगरजनानां चाऽग्रे, भो भो सामन्ताःसुभटा ! भोः पुरजना ! माम् अभयो बलेन गृहीत्वा याति किं | पश्यथ ? मां मोचयत' इत्येवं पूत्करणं करिष्यति परं न कोऽपि मोचयिष्यति । अनया रीत्या सर्वजनसमक्षं भवन्तं गृहीत्वा यास्यामि' अतो भवता सावधानतया स्थातव्यम् । धीमता सह बुद्धिवितरणं कृत्वा तथा स्थेयं यथा मदुक्तसङ्कटोल्लङ्घनं भवेत्। मानबहुलेन प्रद्योतेनोक्तम्-"वरं वरम्, याहि याहि !, अधुना सर्वं ज्ञास्यते । एकवारं तु माञ्जर्या मुखमिव आनायितोऽसि तत्तु विस्मृतम् ! । पुनः कालेन चटकिकाशिशुवद् आनाययिष्यामि ! | वाग्बद्धन मया मुक्तो यासि अतस्त्वं प्रस्फुलनं करोषि । दृश्यतां यद् वक्रकटिलङ्को मत्कोटको गुडगुणी लातुमीहते ! । शतयोधानां सहस्त्रयोधानां कोटिसामन्तसुभटानां मध्यगतं मां गृहीत्वा | गमनप्रतिज्ञां करोषि ! । ज्ञातं तव सामर्थ्यम् !"। अभयेनोक्तम्-'कार्य कृत्वा प्रमाणं करिष्यामि, अधुनोक्ते किं प्रयोजनम् ? | इत्युक्त्वा राजगृहं प्रति प्रतस्थे । कियद्भिर्दिनैर्मगधमण्डनं राजगृहपुरं प्राप्तः । अग्रतश्चरैः श्रीश्रेणिकाय वर्धापनिका दत्ता'स्वामिन् ! बुद्धिबलेन प्रद्योतं जित्वा, मालवदेशेषु कीर्तिस्तम्भं स्थापयित्वा, बहुतरजनानामुपकृतिं कृत्वाऽभयो निर्भयमागतः। श्रेणिकोऽपि पुत्रागमनं श्रुत्वा उल्लसितरोमाञ्चकञ्चुको भूत्वा वर्धापनिकां च दत्त्वा महामहोत्सवेन दानमानेन च अभयस्य
॥२६२॥
Jan Education n
ational
For Personal & Private Use Only
www
b rary.org