________________
श्रीधन्य
अष्टमः
चरित्रम्
पल्लवः
॥२६॥
प्रद्योततनयोऽपि विलक्षवदनस्तां मुक्त्वा पश्चात् चलितः। वत्सराजप्रमुखा वेगवतीपृष्ठतः समुत्तीर्णाः श्रमापनोदं कर्तुं लग्नास्तावता क्षणाद् वेगवती मृता। वत्सराजो वासवदत्तया सह सहर्ष राजमन्दिरं प्रविष्ट ।
अथ प्रद्योतपुत्रेण गत्वा सर्वो व्यतिकरो निवेदितः । तं श्रुत्वा क्रोधाद्धमधमायमानो युद्धाय सामग्रीं कर्तुं समीहते, तावता एकेन मुख्यमन्त्रिणा राज्ञे विज्ञप्तिः कृता-'राजन् ! अधुना युद्धादिकरणमनुचितम्, यतस्तया स्वेच्छया भर्तृभावेनायं वरोऽङ्गीकृतः, सा कथं तं मोक्ष्यति ? | तथा केनापि उपायेन च्छलेन वा आनीयते परम् अन्येनाङ्गीकृताम् उपभुक्तां च कः कुलीनो ग्रहीष्यति? || प्रत्युत अनया तु भवदीया चिन्ताऽपहृता, स्वयंवरादिप्रभूतद्रव्यव्ययो न कारितः । स्वानुरूपं वरं निरीक्ष्य वृता, किमप्ययुक्तं न कृतमस्ति । अयमपि च उच्चकुलो राजपुत्रो विद्यानां कलानां चैकनिधिः । ईदृशो गवेषणयाऽपि न प्राप्यते अत इदं योग्यं युगलमस्ति।। अधुना युद्धादिकरणम् अपयशसे जायते, मूर्खता च प्रकटीक्रियते। तस्मात् सकलसामग्रीयुक्तप्रधानपुरुषैस्तत्र गत्वा पाणिग्रहणं कार्यते । एतद् युक्तमस्ति, नान्यत् किमपि । राज्ञाऽपि मन्त्रिवचनात् शान्तेन भूत्वा वत्सेशाय वासवदत्ता दत्ता । सर्व सुस्थं जातम् ।
अथान्यदा अवन्त्याम् । अग्निभयं समुत्पन्नम् । गृहा-हट्टादिश्रेणिदृश्यमाना ज्वलित्वा भस्मीभवति । जलादिना विध्याप्यमानोऽपि अग्निन विरमति। एकस्मिन् स्थले विध्यापितोऽनेकेषु स्थलेषु ज्वालमालाकुल उत्तिष्ठति। जनैरनेकधा देवीदेवानां भोग-पूजो-त्सवादि मानितं, परं न किमपि विरामं ददाति, प्रत्युत अधिकतरं उत्तिष्ठति केचिद् राजकीया अपि दग्धाः । रात्रौ न कोऽपि सुखेन स्वपिति । तदा प्रद्योतेन दर्शितबुद्धिकौशल्याय अभयाय पृष्टम्-'भो धीनिधे ! कोऽपि अग्निशमनोपायो |TR०॥ विद्यते नवा?' | तदाऽभयोनोक्तम्-'अस्ति प्रतिक्रिया श्रृणुत-अग्निरेवौषधम्, अग्नेः, अतो नवीनममिग्नं समुत्पाद्य पूजादिकं च
Ecolematon
For Personal Private Use Only
www.sainalibrary.org