________________
श्रीधन्यचरित्रम्
अष्टमः पल्लवः
॥२५९॥
राज्ञ उत्तरणवाटिकां यावद् आगतस्तदा क्षात्राचारधुरीणः क्षात्रधर्मपरिपालनार्थं स्वमिति ज्ञापयामास-'यतो वासवदत्ता काञ्चनमाला मिण्ठो वसन्तकाख्यो वेगवती घोषवती च एते वत्सराजेन स्वेच्छया नीयन्ते, अतो यः शूरो भवेत् स एषां मुक्तये धावतु' । इत्येवं तारस्वरेणोद्घोषणां कृत्वा वेगवती त्वरितगत्या प्रेरिता शीघ्रं गतिं कुर्वती चलिता । अथ प्रद्योतप्रमुखैः समग्रै राजलोकैस्तच्छुतम् । प्रद्योतः कोपाकुलो भूत्वा सेवकानादिशत्-'अरे ! धावत धावत, आशु ममापराधी गृह्यताम्, ममागे चानीयताम्' । इति राशोक्तं श्रुत्वा मन्त्रिप्रमुखा आहुः-'महाराज! स तु वेगवत्यारूढो गच्छति, तं ग्रहीतुं कः शक्नोति ? | तदैकेन मन्त्रिणोक्तम्-'स्वामिन् ! अस्याः पृष्ठेऽनलगिरिर्मुच्यते, विनाऽनलगिरिं तस्या गतिं न कोऽपि रोढुं समर्थः । राज्ञोक्तम्'एवमस्तु, परंस गृहीत्वा अत्रानेतव्यः । तदा भटयुक्तं स्वकीयपुत्रमारोह्याऽनलगिरिः पृष्ठे मुक्तः । अतित्वरितगत्या प्रेरितोऽनलगिरिः पञ्चविंशतियोजनेषु गतेषु वेगवत्या मिलितः । तदादूरतस्तम् आगच्छन्तं दृष्ट्वा वत्सराजेन एका मूत्रघटी तत्र मार्गे स्फोटिता। मूत्रवासनया मूर्च्छितो हस्ती मूत्रं जिघ्नन् स्थितः भटैबहुधा प्रेरितोऽपि पदमात्रं न चलति। घटिकामात्र मूत्रगन्धेन प्यायनीभूतोऽग्रे | चलितः । वेगवत्या तु घटिकान्तरे बहुः पन्था उल्लङ्क्तिः । पुनरपि पञ्चविंशतियोजनेषु वेगवत्या मिलितः । पुनस्त थैव घटी स्फोटिता, पुनर्घटिकान्तरं जातम्। एवं तावति मार्गे वत्सराजेन घटीं स्फोटं स्फोटम् अनलगिरिगती रुद्धा। एवं घटीचतुष्टये पूर्णे जाते पुनरनलगिरिर्मिलितः । अथ प्रद्योतपुत्रेण वत्सराजमारणाय चापे बाणमारोपितम्, तदा वासवदत्तया उत्थाय स्वान्तरितं वत्सराजं कृत्वा भ्रातृसम्मुखं स्थिता । तदा प्रद्योतपुत्रेण विमृष्टम्-'भगिनी स्वान्तरितं कृत्वाऽग्रतः स्थिता !, भगिनी कथं हन्यते?' | इत्येवं विचारं कुर्वतो घटिकामात्रविलम्बे जाते वत्सपत्तनमागतम् । वेगवती धावन्ती वत्सपत्तनमध्ये प्रविष्टा तदा
Jain Education international
Tww.sainelibrary.org
For Personal & Private Use Only