SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ २५८ ॥ वासवदत्तां सहादायाऽत्रोपवने आगन्तव्यम् । भवदीयोद्यमप्रसादः कीदृशो निष्पन्नोऽस्तीति द्रष्टुं समीहाऽस्ति, इति हेतोरागन्तव्यम्' । वत्सराजेनाऽप्युक्तम्- 'वरम्, आगमिष्यामि । पुना राज्ञा दासीमुखेन वासवदत्तायै ज्ञापितम् - प्रगे पाठकेन सहोपवने आगन्तव्यम्, प्रभूतदिनाभ्यस्तकला च दर्शनीया । सर्वे गीत सङ्गीत-रस रागकलाविशारदा अत्रागमिष्यन्ति, अतस्त्वयाऽवश्यम् अध्यापकमादाय आगन्तव्यम्' । ततो वासवदत्तयापि 'ओम्' इत्युक्त्वा विसर्जिताः । अथ यथावसरज्ञेन सुबुद्धिना वत्सराजेन वासवदत्तां प्रत्युक्तम्- 'प्रिये ! अद्य कारागाराद् निःसर्तुमवसरोऽस्ति यतो राज्ञा बहिरागमनादेशो दत्तः । | अत आवयोर्वेगवतीम् इभीमारुह्य स्वगृहगमनकालोऽस्ति । पश्चाद् ग्रामाद् बहिर्निः- सरणाज्ञा कदा भविष्यति ?, अतश्चिन्तितं | कुर्वः । यतो यथार्थानाम्नया वेगवत्या वेगस्याग्रे कोऽश्ववारादिः पृष्ठतो धावितुं 'प्रभवेत् ?' । इति वत्साधीशोक्तं वासवदत्तयाऽपि इष्टं वैद्योपदिष्टमिवमानितम्। ततो वासवदत्तया वेगवती आनायिता । अस्मिन्नवसरे कमपि अन्धमपि विशदनिमित्तज्ञं द्रव्यदानपूर्वकं प्रसन्नीकृत्य यौगन्धरायणेन पृष्टं यद्- 'इयं वेगवती ईप्सितस्थले निर्विघ्नं यास्यति ?' । तदा तेन निमित्तकुशलेनोक्तम्- 'एषा वेगवती योजनशतं गत्वा नूनं प्राणान् त्यक्ष्यति । विघ्नं पुनरस्याः पृष्ठेऽनलगिरिः करिष्यति, ततो विघ्नं ध्वंसनार्थं चतस्त्रोऽस्या मूत्रघटिका उभयोः पार्श्वयोर्द्वे द्वे स्थाप्याः' । इत्याम्नायं नैमित्तिकेनोक्तं लब्ध्वा यौगन्धरायणेन तथैव कृत्वा वेगवती सज्जीकृता । | प्रभूतदानेन पुनरन्ध्रस्तोषितः । 'कस्याप्यग्रे न वक्तव्यम्' इत्युक्त्वा च विसर्जितः । अथ वत्सराजो, घोषवती वासवदत्ता, धात्री काञ्चनमाला, हस्तिमिण्ठो, वसन्तकश्च एते वेगवत्यामारुढाः। यौगन्धरायणकृतसंज्ञया चलितो वत्सपतिः । क्रमेण नगराद् M १. प्रभवति प्र० । Jain Education Intemational For Personal & Private Use Only अष्टमः पल्लवः ॥॥ २५८ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy