________________
श्रीधन्य
अष्टमः
चरित्रम्
पल्लवः
॥२५७॥
वशमानय' । ततो राजाज्ञया वासवदत्ता पटावृता सुखासने स्थित्वा गता । अथ वत्सराजेन वासवदत्तया च गजसमीपे गत्वा, वीणावादनपूर्वकम् 'उभाभ्यां स्वरमेलनं कृत्वा तथा गीतगानमालापितं यथा गजः स्वयं मदं त्यक्त्वा तयोर्मुखाग्रे शिरो धुन्वन् आगत्य स्थिरो भूत्वा स्थितः । वत्सराजेनापि घटिकाद्वयं प्रबलगीतगानेन तर्पितः सरलतामापन्नः, तदा कुमारः फालां दत्त्वा उपरि चटितः । पश्चात् सुखेन आलानं नीत्वा दृढबन्धनैर्बद्ध्वा भूपोपकण्ठं गत्वा निवेदितम्। राज्ञा च तौ अतीव श्लाघितौ, विसर्जितौ च । पुना राजाऽभयस्य बुद्धिकौशल्यं दृष्ट्वा तुष्टो वदति-हे सुबुद्धिनिघे ! गृहगमनं मुक्त्वा यथोप्सितं वरं वृणु' । तदाऽभयेन पूर्ववत् स | वरो न्यासीकृतः।
अथोऽन्यदा 'ऋतुराजागमे मुदा राजा नगरोपवने गान्धर्वगोष्ठिमारेभे । तस्मिन्नवसरे वत्सराजमन्त्री नाम्ना योगन्धरायणो | निजस्वामिनः शुद्धिं लब्ध्वा तत्रागतः । उज्जयिन्यां यत्किञ्चिद्वेषं कृत्वा त्रिपथ-चतुष्पथेषु परिभ्रमन् इति वदति--- . "यदि तां चैव तां चैव, तां चैवायतलोचनाम। न हरामि नृपस्यार्थे नाहंयौगन्धरायणः" ||२||
इत्येवं वदन् नगरे परिभ्रमति, परं भावार्थं न कोऽपि वेत्ति। अथान्यदा राजवाटिकायां निर्गतः प्रद्योतो राजा तच्छुत्वा क्रुद्धः परं भावाऽनभिज्ञत्वात् क्रोधः शमितः । यद्वा तद्वा वेषादिकं दृष्ट्वा चिन्तितम्-'कोऽपि भ्रान्तचित्तो दृश्यते! अतो यत्तत्प्रलपति' अथैकदा प्रद्योतेन चिन्तितम्-'मम पुत्रीं वासवदत्तां पाठयतो वत्सराजस्य प्रभूतवासराः संजाताः ततोऽद्य तस्या गीतविद्याकलां पश्यामि, अनयोरुद्यमः कीदृशः फलीभूतोऽस्ति? | इति ध्यात्वा राज्ञा प्रधानपुरुषमुखेण वत्सराजायादिष्टं यद्-'भवता प्रभाते
१. उभयोः। २. वसन्तागमे। ३. निर्गतेन प्रद्योतेन राज्ञा तच्छुत्वा क्रुद्धं परं भावानभिज्ञत्वात् पुनः शमितः ।
R
॥२५७॥
For Personal Private Use Only
Econtema
Finelibrary.org