SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ २५६ ॥ केनाप्यज्ञातदाम्पत्यौ सुखेन यथेच्छया काम-भोगान् विलसतः । पठन-पाठनकरणं तु बहिर्वृत्त्या अन्तर्वृत्या तु प्रवर्धमानस्नेहौ दम्पती इव सुरसुखोपमं वैषयिकसुरवं भुञ्जाते । एवं कियत्यपि गते काले एकदा प्रद्योतभूपतेर्हस्तिरत्नम् अनलगिरिगजो जातमदो महालानमुन्मूल्य समस्ते पुरे महावातात् | सागरे पोतवद् इतस्ततो गृह-हट्टान् ध्वंसयन् भ्रमति । गजेन खेदिता लोकाः स्थाने स्थाने पूत्कुर्वन्ति । त्रिपथ - चतुष्पथ - महापथेषु हस्तिभयाद् न कोऽपि निःसरति, चेत्, कोऽपि अवश्यकार्यार्थी स्वस्वकलां विकलां च कृत्वा श्रान्ताः परं न केनापि हस्ती वशीकृतः । नगरलोकानां महतीं पीडां दृष्ट्वा प्रद्योतेनाऽभयः पृष्टः- 'असौ मद्राज्यजीवनं गजः केनोपायेन वशो भवेत् ?'। इति राज्ञा पृष्टेऽभयोऽवक्- राजन् ! यदि वत्सराजो वीणावादनपूर्वकं मधुरस्वरेण गानं करोति तदाऽयं हस्ती वशमायाति नान्यथा' । तदा प्रद्योतेन वत्सराजमाहूयोक्तम् -'भोः कलानिधे ! एतेषां नगरलोकानामुपरि कृपां कृत्या तथा स्वानुभूतां रागकलां स्फोरय यथाऽयम् अनलगिरिर्वशीभूतः सरलतां विभ्राण आलानबन्धमङ्गीकरोति । त्वां विनाऽपरं न कमपि पश्यामि य इदं गजभयं निवारयेत् अनलगिरिर्वशीभूतः सरलतां बिभ्राण आलानबन्धमङ्गीकरोति । त्वां विनाऽपरं न कमपि पश्यामि य इदं गजभयं निवारयेत् । अतो बहूनां जीवानामभयं दत्त्वा गजम् आलाने नीत्वा स्वकीयं क्षात्रबिरुदं सान्वर्थं कुरु' । ततो वत्सराजेनोक्तम्- 'महाराज ! अयम् | अनलगिरिः अत्युत्कटमदेनापूरित एकाकिगानकरणेन न वशमा याति, अतो यदि वासवदत्ता सुखासने स्थिता मया सह गानं | करोति तदाऽयं गज उभयोः स्वरमिश्रितगम्भीरग्राममूर्च्छनयामूर्च्छितो वशमायाति' । तदा राज्ञोक्तम्- 'तथैव कुरु, परं गजं Jain Education International For Personal & Private Use Only अष्टमः पल्लवः ॥॥ २५६॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy